This page has not been fully proofread.

24
 
श्रीशङ्कराभ्युदये
 
दरसे त्वदाश्रितवतां द्रुतमर्धचन्द्रं
 
जहोः कुमारि जडतां च विवृण्वती त्वम् ॥३०॥
 
इत्यालपन्नथ तुषानलदह्यमान-
देहं गुरून्मथनदोषभरापनुत्त्यं ।
मौनी स तीरभुवि मण्डनमुख्यशिष्यैः
आरादुपासितमलोकत भट्टपादम् ॥३१॥
 
दूरे विधूतदुरितौघमपाङ्गभङ्गया
तं देशिकं तदनु नेत्रपथावतीर्णम् ।
तेजोविशेषपरिबुद्धतदीयतत्वो
 
वाचा हृदा च विनतो वदति स्म मट्टः ॥३२॥
 
जाने भवन्तमहमार्य निजार्धजानि
अद्वैतरक्षणकृते विहितावतारम् ।
प्रागेव चेन्नयनसद्म कृतार्थयेथाः
 
पापक्षयाय बत नेदृशमाचरिष्यम् ॥ ३३॥
 
लघुप्रकृतयः अल्पम्वभावा जनाः मानिता गर्वं प्राप्नुवन्ति, सद्यो
मानयितुः शिरोऽधिरोहनि । तद्वत् पुण्यतीर्थमिति व संमानेन
स्नातवतां शिवरूपं प्राप्तवतां गंगाधरताद्धयं तेषां शिरोऽधिरोसि ।
ज़डा आश्रितानां अर्धचन्द्रं गलहस्तिकां ददन्ति निस्सारणाय । त्वमपि
त्वामाश्रितानां परमेश्वर सारूप्य संपादकं अर्धचन्द्रं ददासि । गलस्तिका
गले हस्तं दत्वा निस्सारणम् ॥३०॥
 
आलपन् गंगया साक्षात् आभाषमाणः । गुरुन्मथनं गुरुहिता ॥३१॥
 
तुषानलेन बहिः स्वीयपापचरितेन अन्नश्च दह्यमानो भट्टपाद:
भगवत्पादकटाक्षपातेन विधूतपापतया प्रथममन्तस्तापं जहौ, साक्षात्
दर्शनेन बहिस्तापञ्च ॥३२॥
 
ईदृशं प्रायश्चित्तार्थत्वेऽपि शरीरनाशार्थकत्वादकरणीयम् ॥३३॥