This page has not been fully proofread.

द्वितीयः सर्गः ।
 
भेदोऽयमत्र भवती समयानपेक्षा
 
सा स्वातिवृष्टिसमयं समवेक्षमाणा ॥२७॥
 
अम्ब त्वमम्बरपये बहुलक्षपासु
चान्द्री: कला हरसि नैव चरन्त्यमर्त्याः ।
नो चेत्कुतः प्रतिनवान्नयनायुधांस्तान्
स्याते प्रसाधयितुमिन्दुकलासहस्रम् ॥ २८ ॥
 
स्वापानुषङ्गजडताभरितान् जनौघान्
स्वापानुषङ्गजडता विधुरान् विधत्से ।
दूरी भवद्विषयगहृदोऽपि तूर्णं
धूर्तावतंसयसि देवि क एष मार्गः ॥२९॥
 
सद्यः शिरः समधिरोहसि मानिता चेतु
व्याकुर्वती किल लघुप्रकृतेः स्वभावम् ।
 
23
 
▪▪▪▪▪▪▪▪
 
मुक्ता: मौक्तिकानि ज्ञानिनश्च । जलानां मौक्तिकात्मना परिणति-
स्ताम्रपर्ण्य, जडानां अज्ञानां ज्ञानित्वेन परिणतिरत्र । जलानामित्यत्र
लडयोषभेदः । स्वातीनक्षत्रे वृष्टौ मुक्तोत्पत्तिः ॥२७॥
 
बहुलक्षणा: कृष्णपक्षत्रिय । तामु चन्द्रकलास्त्वमेव अपहरसि ।
देवाः कृष्णपक्षे चन्द्रकला : चरन्ति भक्षयन्तीति तु मृषैव । प्रतिक्षणं
त्वय्यामज्जनोत्तरक्षण एव नवनवा: नयनायुधा: शिवा: सहस्रश उत्पद्यन्ते ।
तृतीयं नयनं दाहकमिति तदेवःयुधं शिवस्येति नयनायुधः सः तेषा-
मेकैकश प्रसाधनाय इन्दुकलासहस्रं अपेक्ष्यते इति त्वमेव चन्द्रकला
हरसि । न देवा: हरमित ॥२८॥
 
9
 
स्वापो निद्रा तमप्रभवा यदनुषंगेण जडताभरितो जनौघः ।
स्वकीयेन अपां समूहेन ( स्वीया: आप: स्वापं ) जडताया मुक्तान् विधत्से ।
धूर्तो धत्तर: खलजनश्च । धत्तूरावतंसः शिवः । विषयेभ्यो दूरीभवतः
धूर्तावतंसान् शिवरूपान्, खलजनाग्रगण्यान् आतनोषीति
विरोधाभासः ॥२९॥
 
सतः