This page has not been fully proofread.

22
 
श्रीशङ्कराभ्युदये
 
वाणी
 
अज्ञातसम्भवतिरोधिकथापि
यस्याः सितासिततयैव गृणाति रूपम् ।
 
भागीरथीं यमुनया परिचीयमानां
 
एनां विगाह्य मुदितो मुनिरित्यभाणीत् ॥२४॥
 
सिद्धापगे पुरविरोधिजटोपरोध-
क्रुद्धा कुतश्शतमदस्सदृशान् विधत्से ।
बद्धा न किन्नु भवितासि जटाभिरेषां
अद्धा जडप्रकृतयो न विदन्ति भावि ॥२५॥
 
सन्मार्गवर्तनपरापि सुरापगे त्वं
अस्थीन्यवश्यमशुचीनि किमाददासि ।
आः ज्ञातमम्ब हृदयं तव सज्जनानां
प्रायः प्रसाधनकृते कृतमज्जनानाम् ॥२६॥
 
त्वं ताम्रपर्ण्यपि सुधाशधुने जलानां
मुक्तात्मना परिणतौ परमं निदानम् ।
 
7
 
अज्ञातसंभवतिरोधिकथा उत्पत्तिविनाश हिता नित्या वाणी वेदः ।
" सितासिते सरिते यत्र संगथे तवाप्लुतासो दिवमुपतन्ति " इति श्रुतिः ।
( ऋग्वेदखिले ८-३-६ ) ॥२४॥
 
सिद्धापगे देवनदि ! पुरविरोधिना शिवेन जटासु निरोधात् क्रुद्धा
त्वं कृत्याकृत्यं न जानीषे । यतः आमज्जतः सर्वान् शिवरूपान् विधत्से,
यतः तेषां जटासु शतशस्तव बन्धो भविता । डलयोरभेदात् जल-
प्रकृतिस्त्वं जडप्रकृतिरसि ॥ २५ ॥
 
शिष्ठै: अस्थीन्यस्पृश्यानि । परं त्वं अवश्यं तान्याददासि ।
अस्थनामावश्यकता तव तादृशी, आमज्जतां शिवरूपेण बहिरागच्छतां
सतामाभूषणाय ॥२६॥