This page has not been fully proofread.

द्वितीयः सर्गः ।
आमज्जतां किल तनुमसितां सितां च
कर्तुं कलिन्दसुतया कलितानुषङ्गाम् ।
अह्नाय जहनुतनयामथ निनुताघां
 
मध्ये प्रयागमनयन्मुनिरक्षिमार्गम् ॥ २१ ॥
 
अन्तेवसद्भिरमलच्छविसंप्रदाय
अध्येतुमाश्रितजला कुहचिन्मरालः ।
चक्रद्वयेन रजनौ सहवाससौख्य-
संशोलनाय किल संवलिताऽपरत्र ॥२२॥
 
क्षोणीसरोरुहदृशः कुचकुंभसोम्नि
कस्तूरिकाबहुलकर्दममेचकान्ता ।
आबद्ध रेखसितपक्षतिचित्रिता या
 
भव्योत्तरीयकदुकूलपटीव भाति ॥२३॥
 
21
 
प्रयागे गंगा यमुनया संगच्छते । गंगा शिवप्रिया, यमुना विष्णु-
प्रिया । प्रयागादन्यत्र गंगा स्वपूरे आमजत: शिवरूपान् करोति,
यमुना च विष्णुरूपान्, अव तु उभे मिलिते हरिहररूपान् कुरुतः
सिता तनूः शिवस्य, असिता विष्णोः । अह्नाय शोघेण ॥२१॥
 
9
 
गंगायाः शुक्लवर्णत्वेन सत्वाकारतया अमलच्छविसंप्रदाय:
सात्विको प्रवृत्तिरधीयते मरालः । यमुनायाः कृष्णवर्णत्वेन तमोरूपतया
तत्र तमोरूप रात्रिसहवाससुखमधीयते चक्रयुगलेन ॥२२॥
 
क्षोणो भूमिः सा काचित्सुरिव । तस्याः कुचकुम्भसीम्नि
उत्तरीयकक्कूलपटांव यमुनायुतगंगा भाति । सा पटी यस्याः
कस्तूरिकाबहलकर्दमेन मेचक: नीलोऽन्तः प्रान्तप्रदेशः, यमुनाया इदं
लक्षणम् । आबद्धरेखामिः रेखाबद्धाभिः सिताभिः श्वेतवर्णाभिः
पक्षतिभिः पक्षमूले; चित्रिता भव्या च । इदं गंगाया: लक्षणम् ॥२३॥