This page has not been fully proofread.

श्रीगुरुभ्यो नमः
अथ किञ्चितिवेदये
 
कलये भगवत्पादशङ्करं लोकशङ्करम् ।
इतस्तत संगृहीतः रचिरै: कविवाक्सुमैः ॥
 
सत्यालङ्करणं वासोभूषणाभं कथानकम् ।
दृश्यते तन्मियो भिन्नं कवीनां कलनावशातु ॥
विभ्रामकं तच्चरितक्रमवस्तुनिरूपणे ।
ऐतिह्यमूलं विविधं सत्यं तेन न भिद्यते ॥
 
"कलये भगवत्पादशङ्करं प्राच्यवाक्सुमैः" इति काचि
दाशा बलवत्युदिता दशभ्यो वत्सरेभ्यः प्राक् । स मनोरथः
शताधिकगुण: फलितो गुरुकृपया यन्महतोऽतिविस्तृतात् तदु-
विषयकप्राच्यवाक्सुमोद्यानातु मन्मनोरुचिर: मकरन्द: मया
सम्भृतः, सङ्कलितश्च श्रीशङ्करविजयमकरन्दरूपेण १९७८
वत्सरे, श्रीकाञ्चीकामकोटिपीठाधिपजगद्गुरु श्रीशङ्कराचार्य श्री-
जयेन् सरस्वती श्रीचरणानां चरणयोः तेषां पीठाधिरोहणरजत-
जयन्त्युत्सवावसरे कालट्यां श्री शङ्करभगवत्पाद की तिस्तम्भ-
प्रतिष्ठावसरे उपायनत्वेन उपहृतश्च । ततस्तं संगृह्य श्रीशङ्कर-
विजयमकरन्दसारं समकलयं, यश्च विशिरः पुरस्थाचार्यग्रन्थ-
प्रकाशनसमितिः प्राकाशयत् १९८० वत्सरे । श्रीशङ्करविजय -
मकरन्दस्य तृतीयं संस्करणमधुनैव संपन्नं इति हृदयावकाशा-
धिकोऽमितस्तोषभरः । न गर्यो ममता वा तत्र, कृतकृत्यं
मन्वानस्य मे भावपूरः कोऽपि सात्विकः । गुरुकृपा निदानं
 
तत्र ।
 
श्रीशङ्करविजयमकरन्दं समीक्षितवतां इदं सुज्ञातं यत्स