This page has not been fully proofread.

20
 
श्रीशङ्कराभ्युदयें
 
अभ्रापगापरतटस्थममुं कदाचित्
आकारयन्निगमशेखरदेशिकेन्द्रः ॥ १७॥
 
सन्तारिकाऽनवधिसंसृतिसागरस्य
 
कि तारयेन्न सरितं गुरुपादभक्तिः ।
इत्यञ्जसा प्रविशतः स्वमियं द्युसिन्धुः
पद्मान्युदञ्वयति तस्य पदे पदे स्म ॥१८॥
 
पाथोरुहेषु विनिवेश्य पदं क्रमेण
प्राप्तोपकण्ठम मुमप्रतिमानभक्तिम् ।
आनन्द विस्मितनिरन्तरितान्तरोऽसौ
आश्लिष्य पद्मपदनामपदं व्यतानीत् ॥ १९॥
 
कुमारिलभट्टसमागमः
 
भाष्यस्य वार्तिक मथैष कुमारिलेन
भट्टेन कारयितुमादरवान्मुनीन्दुः ।
वन्ध्यायमानमदविन्ध्यमहीधरेण
वाचंयमेन चरितां हरितं प्रतस्थे ॥२०॥
 
आश्रवः गुरुवाक्यानतिलंधी शिष्यः । 'आश्रवो वचने
स्थितः' ॥१७॥
 
"
 
। धुसिन्धुः गंगा । अञ्जसा शीघ्रं, स्वं स्वीयं प्रवाहं, उदश्वयति
स्म धारकत्वेन उदगमयत् ॥१८॥
 
I
 
शबरसूत्रभाष्यकर्ता कुमारिलभट्टः ललितभावभरितव्याख्या-
कारित्वेन प्रथितः । अगस्त्यशिष्यो विन्ध्यः महामेरुणा अस्पर्धत
मत्तः, गुरुणा निवारितः स्वीयं मदं वन्ध्यं व्यर्थमिवाकरोत् । अगस्त्य-
चरिता हुरितु दिग्दक्षिणा ॥२०॥