This page has not been fully proofread.

18
 
श्रीशङ्कराभ्युदये
 
दोषानुषंगकलयापि सुदूरमुक्ताः
धत्सेऽधिमानसमहो सकलाः कलाश्च ।
सर्वात्मना गिरिजयोपहितस्वरूपः
शक्यो न वर्णयितुमद्भुतशङ्करस्त्वम् ॥१०॥
 
भावं सदीयमवबुध्य यथावदेवं
भाष्यं प्रणेतुमनलं भगवानपीशः ।
आकर्ण्य सिद्धमुखतो हरसन्निधौ तत्
आद्यन्तमामममिह त्वदवेक्षणाय ॥११॥
 
अष्टौ वयांसि विभुना तव वत्स दत्ता-
न्यन्यानि चाष्ट भवता सुधियाजितानि ।
भूयोऽपि षोडश भवन्तु भवाज्ञया ते
भूयाच्च भाष्यमिदमारविचन्द्रतारम् ॥१२॥
 
इत्थं निगद्य ऋषिवृष्णि तिरोहितेऽस्मिन्
अन्तविवेकनिधिरप्यथ विव्यथे सः ।
हुत्तापहारिनिरुपाधिकृपारसानां
तत्तादृशां कथमहो विरहो विषहाः ॥ १३॥
 
स्वरसत: कन्दलत् अंकुरयन् अमन्दः अधिक: दयारस: यासु ताभि-
राशीभिः, कन्दलो नवांकुरः ॥९॥
 
अद्भुतकृष्ण भगवत्पादन् अदभुतशंकर इत्यायति । सुदूरमुक्ताः
अत्यन्तमसंस्पृष्टाः ॥१०॥
 
भक्तहृदयानुसारिणी भगवत आज्ञा । भवेन दत्तानि अष्टौ वयांसि ।
सन्यासं स्वीकृतवता सुधिया पुनरष्टावाजितानि । अद्य भव आज्ञापयति
मन्मुखन भूयोऽपि षोडश वयांसि भवन्त्विति ॥१२॥