This page has not been fully proofread.

द्वितीय सर्गः ।
 
ऊचे मुनीश्वरमुदारमुखारविन्द-
माध्वीकसारमतिदायिपुराणजातम् ॥६॥
 
धत्से घनातिशमनाय हृदा गिरीशं
गोपाय सेऽधिवदनं च चिरन्तनीर्गाः ।
दूरीकरोषि नरकं च दयार्द्रदृष्टया
 
कस्ते गुणान्गदितुमद्भुतकृष्ण शक्तः ॥७॥
 
अद्यानवद्यमजनिष्ट जनुर्ममेदं
 
अद्यैव मे सुचरितानि पचेलिमानि ।
पादारविन्दभजनात्तव देशिकेन्द्रे-
त्युक्त्वाग्रतो निविविशे स इदंनिदेशात् ॥ ८॥
 
अव्याजकन्दलदमन्ददयारसाभिः
 
आशीभिरेनमभिनन्द्य स शङ्करायम् ।
वाचंयमेन्दुरथ वाचमुवाच वाणी-
वीणाकलक्वणतृणीकरणप्रवीणम् ॥ ९॥
 
17
 
उदारं मुनीश्वरमुखं वेदपाठपरिपुतत्वेन वेटरक्षकत्वेन च ।
तन्मुखारविन्दगलितो मकरन्दः पुराणजातम् । अरविन्द पेक्षया मकरन्दो-
Sल्पिष्ठ: लोके । अत्र तु बहुविस्तृतं वेदोपबृम्हकत्वान्महत् पुराणजात-
मिति तदप्युदारमेव ॥६५
 
व्यासोऽपि कृष्णः । परमद्भुतः । हृदये शिवं दधाम:, वांचि
वेदान् गोपायन् दृष्ट्या नरकबाधां दूरीकरोतीत्यद्भुतत्वम् ॥७॥
 
;
 
इदं निदेशात् अस्य व्यासस्य निदेशात् अनुज्ञां प्राप्य निविविशे
उपविवेश ॥८॥
 
वाचो भाषणात् यच्छति विस्मयतीति वाचंयमो मुनिः । अव्याजेन
 
3