This page has not been fully proofread.

16
 
श्रीशङ्कराभ्युदये
 
गाढोपगूढमनुरागजुषा रजन्या
गर्हापदं विदधतं शरदिग्दुबिम्बम् ।
तापिञ्छरीतितनुकांग्तिझरीपरीतं
कान्तेन्दुकान्तघटितं कलशं दधानम् ॥३॥
 
सप्ताधिकाच्छतरविंशतिमौक्तिकाढ्यां
सत्वस्य मूर्तिमिव बिभ्रतमक्षमालाम् ।
तत्ता दृशस्वपतिवंशविवृद्धये प्राक्
तारावलीमुपगतामिव चातुम् ॥४॥
 
द्वीपे क्वचित्समुदयत् द्रुतमेधमानः
 
शांखासहस्रसचिवश्शुक सेव्यमानः ।
उल्लासयत्यहह यस्तिलको मुनीनां
 
उच्चैः फलानि सुदृशां निजपादभाजाम् ॥५॥
 
श्रीशङ्करोऽथ सह शिष्यगणेन दुरात्
 
+
 
प्रत्युद्गतः पदसरोरुहयोः प्रणम्य ।
 
.
 
चन्द्रकायलं
 
व्यासमुनेर्हस्ते चन्द्रकान्तशिवाघटितः कलश: ।
कलशं व्यासतनुगतो नीलिमा पर्येति । रजनी कामिनो चन्द्रमुगूहते ।
तथोपमूढः चन्द्रा व्यासघृतकलशं आत्मानं गर्हत इव ॥ ॥
 
"
 
+
 
व्यासो बिमति सप्तविंशतिमुक्ताघटिताक्षमालां, चन्द्रवंशाभिवृद्धये
तारागणो व्यासमुपास्त इव । व्यासेन किल कुरुवंशाभिवृद्धिः ॥४॥
 
वेदशाखासहस्रं सचिवा यस्य । तिलको नाम कश्चिद्वनस्पतिः ।
अयं व्यासाख्यः तिलकवृक्षः क्वचित् (द्वोपे) जातः, जन्मभूमेः अन्यत्र द्रुतं
एघमान: शाखा सहस्र सहाय: सद्यः क्षणाद्वृद्धः । वेदशाखासहस्रं सहाय-
भूतमस्य । शुकै: फलास्वादशीलः - शुकेन महर्षिणा सुतेन सेव्यमानः ।
सुशां ज्ञानिनां निजपादमाजां अर्थ उच्च फलानि कांक्षिताधिकरसानि
उल्लासयति सद्यः स्वाद्यत्वेन प्रकटयति ॥५॥