2023-02-27 05:44:50 by ambuda-bot
This page has not been fully proofread.
द्वितीय: सर्ग:
व्यासानुग्रहः
तत्रैकदा नवतमालसमानशोभं
चामीकरव्रततिचारुजटाकलापम् ।
विद्युल्लतावलयवेल्लितवारिवाह-
सच्छायमैक्षत सत्यवतीतनूजम् ॥ १॥
भद्रेणचर्मपरिवीतकटीतटीकं
नीलाम्बुदाबृतनितम्बमिवाञ्जनाद्रिम् ।
आलोलफेनघवलत्रिगुणोपवीतं
आलक्षितविपथगोमिमिवाभ्रमार्गम् ॥ २॥
इतिवृत्तक्रमे, पौत्रापर्यं ग्रन्थेषु बहुध उपलभ्यते एकंकस्मिन्निति-
वृत्तेऽपि ऐतिह्यं मिथो भिद्यते । व्याससमागमो द्वेधा वर्ण्यते । व्यासो
गृहीतवृद्ध द्विजरूप: गङ्गातीरे शिष्यानध्यापयन्तं आचार्यमुपसृत्य "तद-
तर प्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्यां" इति तृतीयाध्याय-
गतं सूत्रमधिकृत्य वादमारभत । दिनाष्टकं प्रवृत्ते वादेऽशान्ते शङ्करः
पद्मपादसूचितं द्विजरूपं व्यासमवगत्य प्रणनाम, व्यासश्च तमनुजग्राहेति
आनन्द गिरीये माधवीये चिद्विलासीये सदानन्दीये भगवस्पादाभ्युदये च ।
व्यासः शङ्करं द्रष्टुं साक्षादा गच्छत् अन्वगृह्णाच्चेति व्यासाचलीये गुरु-
वंशकाव्ये गोविन्दनाथीये शङ्कराभ्युदये च । व्यासेनंत्र दीर्घायुष्ट्वं अनु-
गृहीतमिति व्यासाचलीय-
माधवीय-सदानन्द्रीय-शङ्कराभ्युदय- गुरुवंश -
काव्येषु, व्यासध्यातेन तत्र सन्निहितेन ब्रह्मणा अनुगृहीत मिति प्राचीन-
शङ्करविजय - आनन्दगिरीय-चिद्विलासीय - जगद्गुरुरत्नमालास्तोत्रेषु ॥
तमालनलं बपु स्वर्णच्छाया जटेति विद्यदलंकृतो मेघ इव भाति
>
व्यासः ॥ १॥
भद्रमेणचर्म नीलाम्बुद इव, भगवान्व्यासोऽञ्जनाद्रिरिव । आलोलं
फेनघवलं च उपवीतं श्यामे अभ्रमार्गे दिवंगताया: गङ्गायाः ऊभि-
मालेव ॥ २ ॥
-