This page has not been fully proofread.

14
 
श्रीशङ्कराभ्युदयें
 
विद्वद्भिः शुकमुनितातसूत्रपङ्क्तेः
व्याकुर्वन्नुपनिषदा व भाष्यमेषः ।
ब्रह्मषिव्रजबहुमानितो बदर्या
सानन्दं रुचिरमुवास शङ्करायः ॥६५॥
 
इति दन्तिद्योतिदिवाप्रदोषाङ्क - सत्यमङ्गल रत्नखेटश्रीनिवासदीक्षित-
तनूजस्य कामाक्षीगर्भसम्भवस्य श्रीमदर्धनारीश्वरगुरुचरण सहजता
लब्धविद्यावैशद्यस्य राजचूडामणिदोक्षितस्य कृतिषु
शङ्कराभ्युदये काव्ये प्रथमः सर्गः ।
 
प्रथमं मङ्गलादितया व्याख्याय मध्ये मङ्गलात्मक स्तोत्रप्रकरणादीन्,
अन्ते मङ्गलान्तत्वेन सूत्रभाष्यं चकार । एवं मङ्गलादीनि मंगलमध्यान
मङ्गलान्तानि च तदीयग्रन्थरत्नानि प्रथन्ते । बदर्या सूत्रभाष्यप्रणयन,
काश्यामितरग्रन्थजातप्रणयनमिति काचित् प्रसिद्धिः ६४॥
 
शुकमुनितातो व्यासः । तदीयायाः सूत्रपंक्तेः उपनिषदां च
भाष्यं व्याकुर्वन् विद्वद्भयः शिष्येभ्यः विशदतया अध्यापयन् विद्वद्भिः
सह शास्त्रार्थविचारं कुर्वाण, ब्रह्मषिव्रजेन बहुमानित: बदर्या सानन्द-
मुवास ॥ 'शङ्करो दर्शयामास गुरू ग्रन्थसमुच्चयम् । गौडपादोऽभव-
त्प्रीतः प्रशिष्ये विनयोज्ज्वले । लोकशंकरणे शक्तं चिकीर्षुस्तं जगद्-
गुरुम् ।
त्रिकालविदलंचक्रे भगवत्पादसंज्ञया । बदरीवासिनस्सव
भगवत्पादयोगिनम् । शङ्कराचार्यनाम्न । च तुष्टुवुर्भक्तिपूर्वकम् । इति
ब्रह्मानन्दोयशङ्करविजये ॥ ६५॥