This page has not been fully proofread.

प्रथमः सर्गः ।
 
सगुणब्रह्म बोध कसक्कान् मन्दाधिकारिणः ।
अनुगृह्णन्नथातानीदसौ हरिहरस्तुतीः ॥६०॥
 
अतन्तनीत्प्रकरणान्यतात्मपराणि
 
सः ।
 
सौन्दर्यलहरीमुख्याः स्तुतीरपि परश्शताः ॥६१॥
 
करतलकलिताद्वयात्मतत्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुद्रितोदितर्गुणौघैः उपनिषदाम प्रभुज्जहार भाष्यम् ॥
सोऽयं कदाचन शुभानि निषेवमाणः
तीर्थानि तैथिकजनस्सह तीर्थपादः ।
गौरीगुरोः स्रवदमन्दझसेपरीतां
खेलज्म रोयुत्तदरों बदरीमवासीत् ॥६३॥
स द्वादशे वयसि तत्र समाधिनिष्ठैः
ब्रह्मषिभिः श्रुतिशिरो बहुधा विचार्य ।
श्रीव्यासदेशिकशिखामणिसूत्वराशः
 
भव्यं गभीरमधुरं फणति स्म भाष्यम् ॥ ६४॥
 
13
 
ये मन्दाधिकारिणः आत्मविद्या ग्रहणे, सगुणब्रह्मभावन एव एकान्तेन
सक्ता तेषां: सगुण ब्रह्मभावनामुखेन क्रमेण निर्गुणब्रह्मावगतये उपकारिणीः
सत्यं ज्ञानमनस्तमिति गोविन्दाष्टक प्रभृती: स्तुती: व्यतानीत् विस्तृतात्
 
3
 
चक्का ॥६०॥::
 
T
 
73
 
*
 
9
 
मध्यमाधिकारिणां कृते सर्ववेदान्तसिद्धान्तसारसंग्रहाद्रीन् अन्ते
उत्तमाधिकारिणां कृते उपनिषदां भाष्यमा रुचितवान् । उदिलोदितैः
एवमेव मित्युपदेशेन अलंभावाना पत्त्या पुनः पुनरुपदिष्ठैः ॥ ६१॥
 
तीर्थो गुरुः, तेन दीव्यन्ति क्रीडन्ते मोदन्ते इति तैथिकाः शिष्याः ।
तीर्थं पुण्यक्षेत्रं, तीर्थभूतौ पादी यस्य । शिष्यस्य गुरुचरणावेव तीर्थं
न गङ्गा न काशी ॥६३ ॥
 
भव्यं मङ्गलात्मकं, मङ्गलं मङ्गलानां चेति प्रथितं भगवन्नाम