2023-02-27 05:44:50 by ambuda-bot
This page has not been fully proofread.
प्रथमः सर्गः ।
पातालतलमाविश्य
फणाधरशिखामणेः ।
येन व्याकरणं कृत्स्नं योगेन सह साधितम् ॥५४॥
11.
तस्य प्रसादमासाद्य तत्तादृशदयानिधेः ।
संन्यासगृह्य विहितं सर्वं कर्माचरत्सुधीः ॥५५॥
कृष्णद्वैपायनाचार्यकृतसूत्रानुरोधतः ।
कृत्रिमेतरवाङ्मौलि कृत्स्नमस्मादबुद्ध सः ॥५६॥
सहस्रसंख्येभ्यः शिष्येभ्यो बोधयितुं गृहोतसहस्रफण: जवनिकान्तर्गतः
स्वतेज: शिष्येभ्य: संवृण्वन् पतञ्जलिरुपदिदेश समयेन, न कोऽपि
जवनिकां उत्क्षिपेत् न वा बहिर्गच्छेत् इति । गौडः कश्चित् पाठमध्ये
बहिर्ययौ । अन्यः कश्चिज्जवनिकां उदक्षिपत् । सर्वे शेषतेजसा दग्धाः ।
बहिर्गतो गौड : शिष्य एकोऽवशिष्टः । पतञ्जलि: नियमभंगाद् ब्रह्मरक्षो-
भावभीतं तं अनुजग्राह, " शिष्यस्ते भविता कश्चित् । तस्मै मस्कृति-
मध्यापय । शापान्मुक्तो भवे.' इति । तं नत्वा ततः प्रस्थाय गौडो रेवातट
जगाम शिष्यं प्रतीक्षनाणः । निजां सहस्रमुखीं मूर्तिपुत्रां दृष्टा अन्तेवसन्त
शिष्या मा भैषुरिति कृपया शान्तः एकानतेन कतिवन शिष्यानन्वग्रहोत्
पतञ्जलिः । ततः पातालं स्वस्थानं जगाम रक्षोभावमापत्रे शिष्ये
गौडे दयमानः स्वांशेन चन्द्रशर्मनामानं विप्रभवतारयामास । स विप्र-
वटुश्चन्द्र शर्मा पातालतलमाविश्य शेषात् व्याकरणयोगदर्शनेऽधिजगाम ।
पश्चात् रेवातटे गौडं स्वकीयव्याकरणज्ञानेन सन्तोष्य, तस्मादधीत-
पातञ्जलभाष्यः लब्धगार्हस्थ्यो बभूव । गौडोऽपि शुक्राचार्यात् गृहीत-
पारमहंस्थो जीवन्मुक्तो माण्डूक्योपनिषद्विवृतिप्रमुख ग्रन्यप्रणेता बभूव
यं गौडपादा इत्याहुः । चन्द्रशर्मापि विरतो गौडप देभ्यो गृहील-
पारमहंस्यो रेवातीरे शिष्यार्थी उवास इति ॥५४॥
-
तत्तादृशेति स्वरूपप्रकारस्मारकौ दयाया अनिरूप्यंत्वं ख्यापयतः ।
गृह्यन्ते संगृह्यन्ते कर्मकलापक्रमबोधकानि वाक्यान्यत्रेति गृह्यं,
आपस्तंबादिप्रणीतं, सन्न्यासविषयकगृह्यविहितं कर्म ॥५५॥
कृत्रिमेतरा अपौरुषेया वाकू नित्या श्रुतिरूपा । तन्मौलिरुप-