This page has not been fully proofread.

10
 
श्रीशङ्कराभ्युदये
 
तया तथेत्यनुज्ञातस्तपस्विन्या कथश्चम ।
संन्यस्तोऽहमिति प्राह सन्निरुध्येन्द्रियाणि सः ॥४९॥
 
ततो दिव्याम्बरधरस्तप्तचामीकरप्रभः ।
देवभूयंगतो नको दिवि तिष्ठन्नवोचत ॥५०॥
 
भवत्प्रसादान्मुक्तोस्मि भारतीप्रियशापतः ।
क्षमस्व मन्तुमित्युक्त्वा क्षणादन्तरधत्त सः ॥५१॥
 
प्रव्रज्या गुरुसेवा च
 
सान्त्वयञ्जननीं काले सन्निधानप्रतिज्ञया ।
पर्याप्तधैर्यः प्रसभं प्रवाज स शङ्करः ॥५२॥
 
शिष्यं शुकर्षिशिष्यस्य गौडपादयतीशितुः ।
गोविन्दभगवत्पादं गुरुमग्रे ददर्श सः ॥५३॥
 
एष गन्धर्व: पुष्परथो नाम ब्रह्मशापानक्रतां गतः आचार्यपाद-
पादस्पर्शात् ततो विमुक्तः इति क्वचित् ॥५१॥
 
अग्रे नर्मदायास्तीरे ॥ ५३॥
 
फणाधर शिखामणिरादिशेष पातालं गत्वा आदिशेषात् येन
योगशास्त्रेण सह कृत्स्नं व्याकरणमपि साधितं पूर्णतया अधीत्यावगतं,
तं गोविन्दभगवत्पादम् । कथैषा अत्रानुसन्धेया । चिदंबरे सभानटो
देवः परमेश्वरो ननते । पाणिनिर्नाम कश्चन तापसः तस्य नृत्यत:
हस्तगताया ढक्काया नादा दवगतैः वर्णजालैः लब्धबोध: व्याकरणसूत्राणि
निर्ममे । यानि वररुचि : वार्तिकेन व्याचख्यौ । विष्णो: पर्यंक भूतः
आदिशेष: विष्णोश्वगतनटेश माहात्म्यः
दिदिक्षुर्भुवमागतः
सुताथिन्या गोण्याः सवित्रेऽर्ध्य मर्पयन्त्या हस्तात्पतन् तस्याः पुत्रीभूय
पतञ्जलिनामा चिदंबरे नटेशानं दृष्ट्वा सिद्धोऽभूत्
 
नटनं
 
· भगवान् नटेश:
तमादिदेश पाणिनीयसूत्राणां भाष्यकरणे । तदाज्ञया संपन्नं भाष्यं