This page has not been fully proofread.

श्रोशङ्कराभ्युदये
 
अधीत्य चतुरो वेदान् अङ्गषट्कोपबृंहितान्
अरंस्त जैमिनीयेऽध्वन्यधियोगमजागरीत् ॥३६॥
 
इतिहासपुराणादीन्बीक्षमाणः स्मृतीरपि ।
सर्वज्ञपदवीं लेभे सप्तमे हायने बटुः ॥३७॥
 
2
 
अधीतमखिलं शास्त्रमालोक्य स पुनः पुनः ।
व्याख्याय सौख्यभरितान्विधेयन्विदधेतमाम् ॥ ३८॥
 
राजशेखरनामाऽथ राजा तं द्विजशेखरम् ।
स्वभ्यर्च्य श्रावयामास स्वकृतं नाटकत्रयम् ॥३९॥
 
अनुजज्ञे गृहान्गन्तुं अभिनन्द्य जनाधिपम् ।
दृशापि नास्पृशत्तेन दत्तानि द्रविणानि सः ॥४०॥
 
निरीक्ष्य मातरं मङ्क्तुं निम्नगां गन्तुमक्षमाम् ।
निर्ममे योगशक्त्यासौ निष्कुटेऽम्बाभिधां नदीम् ॥४१॥
 
स्तदा मात्रा' इति शिवरहस्ये । 'उपनयं किल पञ्चमवत्सरे... द्विज
वधूनियता जननी शिशोधित' इति माधवीये । अत्र च "उपनय-
मकृत्वा दिष्टगत याते ताते बन्धुभिरुपानीयत" इति । उपनयनं द्विः
क्रियते, प्रथमं ब्रह्मरूपादेशेन द्विजत्वापादनेन ब्रह्मणः समीपे
नयनं असावादित्यो ब्रह्म ब्रह्मैवाहमस्मि इति ब्रह्मभावनामुख्यक सन्ध्या-
क्रमकरणयोग्यतासाधनेन, पश्चात् उपाकर्मणा ब्रह्मणो वेदस्य समीपे नयनं
वेदाध्ययनयोग्यतासाधनेनेति । प्रथमं पिता चकार, दिवंगते तस्मिन्
उपाकर्षणा वेदाध्ययनयोग्यतासिद्धि माना बन्धुवर्गो वेति सङ्गतिरत्र
युक्ता भाति ॥३५॥
 
अम्बाभिधां नदीं पुत्र विद्या उत्तरशाखाभूनां - "अम्बाहितार्थ मानीता
पुत्रेणात्मगृहान्तिकम् । अंबापगेति चाख्याता" इति गोविन्दनाथीये ॥४१