This page has not been fully proofread.

प्रथमः सर्गः ।
 
अर्धेन्दुशेखरस्यायमवतारममुं विदन् ।
शङ्करं जगतां चक्रे शङ्करं नामतोऽपि सः ॥ ३० ॥
 
श्रीशङ्करबाललीला
 
मञ्चेऽथ शायिते बाले मानसं पूरितं सताम् ।
वीक्षमाणे मणीगुच्छान् विनीलं विद्विषां मुखम् ॥३१॥
 
पद्भ्यां सन्ताडयन्नेव पर्यङ्कफलकं शनैः ।
बिभेद शतधा सद्यो भेदवादिमनोरथान् ॥३२॥
 
द्विवान्वर्णान्वदत्यस्मिन् द्वैतिनो मौनिनोऽभवन् ।
पद्भ्यां सञ्चरमाणे तु परायन्त दिशो दश ।॥३३॥
 
आक्षपादमुखान्ग्रन्थान् आर्हताद्यागमानपि ।
पपाठ सुनिरासाय प्रागेवोपनयादसौ ॥३४॥
 
उपनयनं विद्याग्रहणं च
 
अकृत्वोपनयं ताते हन्त दिष्टगत गते ।
उपषष्ठे वयस्येष उपानीयत बन्धुभिः ॥३५॥
 
7
 
क्रियैकत्र, विकृतिः फलं चान्यत्र ॥३१, ३२॥
 
उपषष्ठं पञ्चमं वय: । "शिवगुरुरुपनीय शङ्करायं निगममशेष-
मथाध्यजीगपत्तम् । नियतिरिदमसासहिहि नीचा नियतमनोनयदन्त रे
गुरुं द्याम् ॥" इति बृहच्छङ्कर विजये "चौलं कर्प समाप्य चोपनयनं
ताते दिवं प्रस्थिते" इति प्राचीनशङ्करविजये । "उपनीय दिवं गते
स्वताते" इति सदाशिवब्रह्मेन्द्राः जगद्गुरुरत्नमालायाम् । चिद्विलासीये
च तथैव । परं 'उपनीतिमकृत्वैव इति आनन्दगिरीये । 'तं पञ्चमान्द
उपनेतुमनाः स एव पञ्चसाप' इति व्यासाचलीये । 'बाल्य एव मृते
ताते जनन्या परिपोषितः । उपनीत' इति गोविन्दनाथीये । उपनीत-
(