This page has not been fully proofread.

6
 
श्रीशङ्करभ्युदये
 
पयोधरमिषात्तन्व्याः पयःपानोचितौ शिशोः ।
कलशावमृतापूर्णी कलयामास कञ्जभूः ॥२४॥
 
द्वैतवादं कुचद्वन्द्वे मध्ये माध्यमिकं मतम् ।
गर्भस्थ एव पृथुको गर्हयामास सुध्रुवः ॥२५॥
 
शुभंयुनि दिने सूनुमहंयुकुमतासहम् ।
प्रासूत गुहमाले सा सासूदेव शुचिस्मिता ॥२६॥
 
दिग्भिः प्रसेदे पवनं: दिव्यगन्धैरभूयत ।
प्रदक्षिणीभवज्ज्वालैः जज्वले ज्वलनंरपि ॥ २७ ॥
 
ततः शिवगुरुः स्नातो धवलाम्बरसंवृतः ।
वित्तेशमधरीकुर्वन् दत्ते स्म विविधं धनम् ॥ २८॥
 
पुरोधसं पुरस्कृत्य पुण्याहविधिपूर्वकम् ।
चकार स विधानज्ञो जातकर्मादिकाः क्रियाः ॥ २९ ॥
 
पूर्वं कुचद्वैत अभूत् । शंकरे गर्भगे तत्कालोचितस्तनोपचयेन
स्तनद्वैतभानं नष्टम् । द्वैतवादो निरस्त इव । पूर्वं तन्व्यास्तस्या मध्य-
भाग: शून्यप्राय आसीत् । अधुना गर्भभरालसाया उच्छनोदराया: सा
शून्यता ध्वस्तेव । माध्यमिका: शून्यवादिनो बौद्धा अपि पृथुकेनानेन
निरस्ता: । पृथुक: शिशु, पृथु उच्चं कायति शब्दायते इति, प्रथते
इति, इदानीं शिशुरपि पृथुर्महान् बुभूषते इति वा । गर्भस्थ एवायं
द्वैत माध्यमिकवादनिरसनेन पृथुर्महान् बुभूषत इव ॥२५॥
 
गुहमाता पार्वती न गुहूं गर्भे दधार, न प्रासूत, नपोषवा
स्तन्येन । इयं मासान्नव गर्भ धृत्वा प्रसूय स्वस्तन्येन पोषितवतीति
पार्वतीतोऽपि गरीयसी ॥२६॥