This page has not been fully proofread.

प्रथमः सर्गः ।
 
सामिनीलवपुस्ताक्षात् यामिनीशार्धशेखरः ।
वाचमूचे प्रसन्नात्मा वाञ्छिताधिकदायिनीम् ॥१६॥
 
वरयस्व बहून्पुत्रान् वत्स ! मूढांश्चिरायुषः ।
सर्वज्ञमेकमथवा सौम्य संकुवितायुषम् ॥१७॥
 
संमन्त्र्य प्रियया तेन सर्वज्ञे तनये वृते ।
अन्तधिमतनिष्टासावनन्तद्धकर विभुः ॥ १८ ॥
 
आकुलं जगदुद्धर्तुं अद्वैतपरिपन्थिभिः ।
जठरं तद्विलासिन्या जगदीशोऽभजत्स्वयम् ॥१९॥
 
आनीलरोमवल्लीकमलक्षितवलित्रयम् ।
बभार पाण्डवक्षोजं बाला दौहृदलक्षणम् ॥२०॥
खिद्यमानाऽपि नर्मोक्तौ किञ्च मञ्चाधिरोहणे ।
विजित्यान्यानसा वैच्छद्विद्यासिंहासने स्थितिम् ॥ २१ ॥
 
समानापि ससत्वानां विषयेषु विरागिता ।
सुदृशोऽजनि गर्भस्य सुतचारित्रशंसिनी ॥२२॥
 
शुचिस्मितायाः शुशुभे रुचिरा रोमवल्लरी ।
वेणुर्नव इव न्यस्तो वेधसाऽस्य शिशोः कृते ॥२३॥
 
5
 
मूढबहुपुत्रवरणे वत्सेति संबोधनं बालवदज्ञस्त्वं इति बोधनाय ।
सर्वज्ञकुलकरणे सौम्येति, तदा प्राज्ञो युक्तका रीति ॥ १७ ॥
 
धर्मरक्षणाय सन्ततिः प्रार्थ्यते । चिरायुषामपि मूढानामपत्यत्वे
धर्मरक्षणाय इत्याशा दूरे । सर्वज्ञस्यापत्यत्वे अदीर्घजोत्रितत्वात् वंश -
प्रतिष्ठायै इत्याशा दूरे । उभयथापि आशाभंगे समे, मूढापेक्षया सबंज्ञो
वरम् । अनन्तधि करो भगवान् वृतादधिकं दद्यादेव ॥ १८ ॥