This page has not been fully proofread.

श्रीशङ्कराभ्युदये
 
कृपया चोदितस्तेन कृपणानुजिघृक्षुणा ।
स एष कुरुते काव्यं शङ्कराभ्युदयाभिधम् ॥१०॥
श्रीशङ्करभगवत्पादावतारः
केरलेषु नभोलङ्घिकेरभूरुहशालिषु ।
अस्ति कश्चिन्महानग्रहारः कालटिनामकः ॥११॥
 
विद्याधिराज इत्यस्मिन् विश्रुतान्वयनामकः ।
विपश्चितामग्रगण्यो व्याकुर्वाणो विदिद्युते ॥१२॥
 
यस्य नाम्ना शिवगुरुस्तनयो विनयोज्ज्वलः ।
महितोऽजनि यत्पत्नी मखपण्डितकन्यका ॥ १३॥
अध्यैष्ट चतुरो वेदानयष्ट स महाध्वरैः ।
अलब्ध निखिलान्कामानन्तरेण सुतोदयम् ॥ १४॥
 
ततस्स तनयाकांक्षी तरुणीसचिवश्चिरम् ।
तपसा तोषयामास तरुणेन्दुशिखामणिम् ॥१५॥
 
अद्वैतपीठस्थितदेशिकं तं हृद्यात्मविद्याविशदान्तरङ्गम् ।
नित्यं भजामो विशदस्वरूपं गीर्वाणयोगीन्द्रगुरुं हृदन्तः ॥
इति प्रणमन्ति ।
 
" अर्धे तनोरद्रिसुतामयोऽस्मीत्यहंयुना कि फलमादियूना ।
गोर्काणयोमीन्द्रमुपास्महे तं सर्वात्मना शैलसुतात्मको यः ॥"
इति शिवलीलार्णवे श्रीनीलकण्ठदीक्षिवेन्द्राः स्मरन्त्येनम् ॥९॥
 
अग्रे, ग्राममुभयतः हरिहरौ दिव्यालयस्थौ यत्र सः अग्रहारः ।
समुदायस्वे बहवो भागिनः तत्र देवालयो विप्राश्च अग्रिमं भागं हरन्ति
इति, ते यत्र सः अग्रहारः ॥१२॥
 
मख पण्डितस्य कन्यका आर्याम्बा । मखण्डितः कालटीसमीपस्थे
मेलपास इति ग्रामेऽवसदिति प्रथा ॥ १५॥