This page has been fully proofread once and needs a second look.

प्रथमः सर्गः ।
 
शर्वर्याश्चरमे यामे शयानस्स कदाचन ॥
गीर्वाणेन्द्रगुरुं बुद्धया गीर्वाणेन्द्रमलोकत ॥६।॥
 
अनुग्रहादाप्तविद्यं अमरेश्वरयोगिनः ।
विश्वेश्वरयतीशानविनेयं विनयोज्ज्वलम् ॥७॥
 
पर्यायशङ्कराचार्यं पारे वाचामवस्थितम् ।
प्रपञ्चसारप्रमुखप्रबन्धकृतिवेधसम् ॥ ८॥
 
प्रत्यग्ब्रह्मैक्यनिध्यानप्रहसन्मुखपङ्कजम् ।
तत्तन्मन्त्रानुसन्धानतत्परं तमसः परम् ॥९॥
 
आनन्दराघवं नाम नाटकं च प्रपञ्चितम् ।
येन व्यतान्यलङ्कारचूडायण्यभिधा कृतिः ॥
अथ वृत्तिविवेकेग विचित्रा चित्रमञ्जरो ।
येन व्यतानि श्रोराजचूडामणिमखीन्दुना ॥
काव्यदर्पणनामासौ प्रबन्धो विदुषां मुदे । इति ॥५॥
 
8
 
गुरुं प्रस्तौति - अमरेश्वरयोगिनः तन्नाम्नो गुरोः प्राप्तविद्यं
विश्वेश्वरण्यतीशानस्य शिष्यं, यं शिष्टाः स्वगुरुनाम साक्षान्न कथनीयमिति हेतुना, श्रीशंकराचार्यशिष्यपरंपरान्तेवासित्वेन वा विवेकवैराग्यनानातन्त्रपारंगतत्वादिसंपत्तिभिः श्रीशंकरभगवत्पादसादृश्येन वा श्रीशंकराचार्य इति पर्यायेण नामान्तरेण व्यवहरन्ति । अयं प्रपञ्चसारारूप-
भगवत्पाद श्रीशंकर कर्तृककमन्त्रशास्त्रग्रंथविवरणभूतस्य प्रपञ्चसारसारसंग्रहस्य कर्ता । भगवन्नामबोधेन्द्रसरस्वतीस्वामिपादाः श्री शंकरभगवत्पादप्रतिष्ठित श्रीकामकोटिपीठाधिष्ठाने ५९ तमाचार्यत्वेन व्यराजन्त ।
ते अद्वैतभूषणाख्ये स्वकृते ग्रन्थे गुरुमेनं प्रणमन्ति -
 

 
गीर्वाणेन्द्रयतीन्द्राणां चरणांबुरुहद्वयम् ।
स्वर्गापवर्गदं पुंसां नौमि विघ्नोपशान्तये ॥ इति ॥
 
तथा ते स्वकृतायां आत्मबोधटीकायां-