This page has not been fully proofread.

॥ श्रीगुरुभ्यो नमः ।
॥ श्रीशङ्कराभ्युदयः ॥
श्री राजचूडामणिदीक्षितविरचितः ।
प्रथमः सर्गः
 
अस्ति स्वस्तिकृदस्तोकशस्तिश्चूडामणिर्मखी ।
कर्लोविश्वजितः पुत्रः कामाक्षीश्रीनिवासयोः ॥ १॥
 
अधीत्य निखिलं शास्त्रमग्रजादीश्वरेष्टिनः ।
विदुषां प्रीतये येन व्याकृता शास्त्रदीपिका ॥ २ ॥
यत्नं विर्नव विहितो येन तन्त्र शिखामणिः ।
नव्या सङ्घर्षकाण्डस्य न्यायमुक्ताबलिस्तथा ॥३॥
न्यायचूडामणिर्नाम्ना न्यायजातोपबृंहिता ।
रुचिदत्तस्य च व्याख्या रुचिरा येन निमिता ॥४॥
 
टिप्पणी
 
श्रीगुरुभ्यो नमः ।
 
दयमान दीर्घनयना देशिकताभब्य दृश्यदक्षकरा ।
वामकरनिहितदण्डा पुरतो मम भातु सा गुगेर्मूतिः ॥
दण्डालनकरांबुजं पदयुग श्लिष्यद्वटीपादुकं
शीर्षाेविकभक्तदत्ततुलसीबिल्वादिमालाभरम् ।
मार्गाभ्यागतसज्जनात्र लितसाष्टांगप्रणामोन्मिषत्
 
कारुण्यं हृदि भावये गुरुवरं श्रीकामोटीश्वरम् ।
 
-
 
अथ श्रीराजचूडामणिदीक्षिताभिधोऽयं कविः स्वप्ले स्क्गुरुणा
समादिष्टः श्रोशङ्करभगवत्पादचचित वर्णनपर काव्यमिदं प्रस्तीति,