2023-02-27 05:44:46 by ambuda-bot
This page has not been fully proofread.
M
बद्धाादरोऽसौ अनितरसाधारणं विश्लेषणव्याख्यानचातुर्यमाबि-
भर्तीति सहृदया: 'संस्कृती' पाठका: सम्यग्जानन्त्येव ।
अचिरात् स्वपितृपादस्मारकं निधिनियोगमायोज्य तदुद्वारा
श्रीशङ्करविजयमकरन्दं, श्री विष्णुसहस्रनामस्तोत्रद्राविडीव्याख्यां
अन्याश्च कृतीस्सविमर्श प्राकाशयत् याः सहृदयानामादराति-
शयेन परिवृत्तिपरंपरामवगाहमाना: प्रकाशन्ते ।
"
संस्कृत सेवा, गुरुचरणसेवेत्युभे स्वधर्मतया स्वीकृत्य धृत्या
नियमेन च पालयन्तमेनं 'स धर्मश्चिरं एनं परिपालयतु' इत्या-
शंसमाना पण्डितमण्डली, इतोऽप्यप्रकाशितान् श्री राजचुडा
मणिदीक्षितग्रन्थान् अन्यांश्च ग्रन्थतल्लजान प्रकाशनपथमव-
तारयतु अयं मनीषी इति सादरं सप्रेम च प्रार्थयते ॥
विजयतां संस्कृतश्रीः ।
संस्कृतविभागः, अण्णणामले सर्वकलाशाला,
अण्णामलैनगरम् ।
विद्वज्जन विधेयः
शे. श्रीनिवास शर्मा