This page has not been fully proofread.

काव्यदर्पणं, रुक्मिणी परिणयं, इदं शङ्कराभ्युदयं च काव्यमिति
दश ग्रन्थाः इदानीमुपलभ्यन्त इति च ज्ञायते । उक्तशताब्दी-
मध्यजातानां दीक्षितवंश्यानां ग्रन्थेषु व्याख्यायां, विश्लेषणे,
उपबृंहणे, परिवृत्त्यसहपदविन्यासे च काचिदभिनवा सरणिः
सुश्लिष्टमाता दृश्यते इति विशिष्यावधेयोऽशः ।
 
9
 
आनन्दगिरीयादिप्राचीनचरित्रग्रन्थेषु कांच्यां भगवत्पादानां
सिद्धिरिति रूढमूलं, पश्चात्तनैश्चरित्रकारैः कैश्चन विपरिवर्तित
मपि वस्तुतत्त्वं यथावन्निविशङ्कं प्रकटीकुर्वदिदं काव्यं श्रीराम-
भद्रदीक्षितस्य पतञ्जलिचरितेन संवादं भजते इत्यतस्तद्गत-
शङ्करभगवत्पादचरित्रसंबन्धी भाग: अनुबन्धतया अत्र संयो-
जितो विद्वदास्तिकानां मोदाय कल्पेत ॥
 
'नानपेक्षितमुच्यते' इति सङ्कल्पेनेव संयोजितं टिप्पणं,
अपेक्षितं सर्वं स्वारसिकरीत्या विवृणोति । अयं हेम्नः परमामोदः
यत् द्वयर्थकहरिहरस्तोत्रे सावरणदेवतायाः परदेवतायाः स्तोत्र-
रूपेऽष्टमसर्गे च टिप्पणस्यास्योपयोगिता बहुगुणेति । काव्य-
कर्तुराशयं समुचितया रमणीयया सरण्या प्रकाशयदिदं नाति-
विस्तरमपि काव्यगौरवं पुष्णाति ।
 
टिप्पणकारः ब्रह्मश्रीयुतो राधाकृष्णशास्त्री आजानशुद्धे
पण्डितकुले, पण्डितवरैः साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं
यथायथं पोषयद्भिः भ्रातृभिः सह जनिमलभत । महदिदं प्रमोद -
स्थानं यन्मातुलोऽस्य तज्जापुर्यां यशस्वी महाकवि : श्रीसुन्दरेश-
शर्मा प्रेमविजय - रामामृततरङ्गिणी - रामकर्णामृतादिग्रन्थानां
प्रणेतेति । सर्वशास्त्रेषु प्राधान्येन चायुर्वेदेऽयं निष्णातः ।
संस्कृतसाहितीसमास्वादनेऽभिनवकृतिरचनेषु सदुपन्यासेषु च