This page has not been fully proofread.

-१४-
क्षण एवं नवनवाः शिवाः सहस्रशः उत्पद्यन्ते, तेषामेकैकशः
प्रसाधनाय इन्दुकलासहस्रमपेक्ष्यते' इति वस्तु व्यङ्ग्यविषयतां
प्रापयति द्वितीया । ( २ - २८ ) तथा -
 
सद्य: शिरः समधिरोहसि मानिता चेत्
व्याकुर्वती किल लघुप्रकृतेः स्वभावम् ।
दत्से त्वदाश्रितवतां द्रुतमर्धचन्द्र
 
जह्रोः कुमारि ! जडतां च विवृण्वती त्वम् ॥
 
इति व्याजनिन्दया, गङ्गायां श्रद्धया स्नातवतां तदाश्रितानां च
पारमेश्वरसारूप्ये पर्यवसितं वस्तु व्यंग्यपथमानयति कविः ।
(२-३०)
 
ताम्रपर्णी गङ्गा चोभे जलानां ( जडानां च ) मुक्तात्मता-
परिणतिप्रदाने शक्ते; परं तु ताम्रपर्णी तत्व स्वातीनक्षत्रे वृष्टि-
मपेक्षते, गङ्गा तु नेति व्यतिरेकस्यातिश्लक्ष्णा भङ्गी कुत्रचित् ।
(२-२७)
 
तस्यास्य काव्यतल्लजस्य कर्ता क: ? सुचिरात् संस्कृत-
साहित्यस्य स्वर्णयुगायमाने क्रैस्तवषोडशसप्तदशशताब्दात्मके
काले विद्यया जन्मना वा श्रीमदप्पयदीक्षितसंबन्धिनस्तत्सदृक्षा
महनीया बहवो विद्वांसः समजनिषत । तेष्वन्यतमः यज्ञनारा-
यणापरनामा राजचूडामणिदीक्षितोऽस्य प्रणेता । मखिनोः
कामाक्षी (रत्नखेट ) श्रीनिवासयोरात्मजोऽयमपि मखी, अर्ध-
नारीश्वरदीक्षितस्याग्रजस्य शिष्यः, श्रीगीर्वाणेन्द्रस्याध्यात्म-
विद्यागुरोनिदेशेनेदं काव्यं कृतवानितीदं वृत्तजातमदः काव्य-
प्रस्तावनाश्लोकैरवगम्यते । सप्तविंशतिस्तदीया ग्रन्थाः । तत्र
तन्त्रशिखामणिः, शास्त्रदीपिकाव्याख्या, मणिदर्पणं, युद्धकाण्ड-
चम्पू कान्तिमतीपरिणयं, कमलिनीकलहंसं, आनन्दराघवं,
 
2