This page has not been fully proofread.

- १३-
श्रीमीनाक्षीस्तवे मीनाक्ष्याः कटाक्षांकुरवर्णने कविरयं मूक-
कविमतिशेत इति नातिशयोक्तिः । दर्भशयने रामस्तवं व्याजी-
कृत्य कति कल्पनाः कवेः समुदयन्ति ? इयमतिमनोहरा इय-
मियमियमिति पल्लवानुपल्लवं यदि कल्प्यते पट्टिका तर्हि राम-
स्तवसन्दर्भ: निश्शेषं समुद्धृतः स्यात् । स सन्दर्भ: सावधानं
सहृदयैरास्वादनीयस्तत्रैव ।
 
श्रीरङ्ग क्षेत्रे श्रीरङ्गनाथमुपश्लोकयता कविना, विष्णोर्दशा-
प्यवतारा वर्णिताः । तथा हरिहरक्षेत्रे वैकुण्ठकैलासविवर्तभूते
अद्वैतमुद्रामिव दर्शयन्तौ हरिहरी समुच्चित्य द्वयर्थाभिर्वाग्भिः
सचमत्कारं विष्णो: शिवस्य चावतारा: स्तोत्ररूपेणावतारिताः ।
उभयत्रापि प्रसिद्धमवतारक्रममनुल्लंघ्य वर्णिताः । परमयं
विशेष:- प्रथमे प्रत्येकमवतारस्यैकैक: श्लोकः, द्वितीये अवतार-
प्रयोजनीभूतविषयप्रपञ्चनाय प्रत्येकं द्वौ श्लोकावुपनिबद्धा-
विति ।
 
द्वितीये सर्गे गङ्गायमुनयो: संभेदं सर्वश्रा नूतनया सरण्या
वर्णयतोऽस्य कवेचातुरीं अतिक्रान्तश्रीमत्कालिदासां भावयामः ।
प्रातिस्विकगङ्गावर्णने ध्वनिचमत्कारेण रसिकमनांस्युत्तरलयति
कविः । यथा-गङ्गा सन्मार्ग़वर्तिन्यपि शिष्टैरस्पृश्यानि अस्थीनि
सत्यमाददाति । कुत: ? 'आ: ज्ञातमम्ब हृदयं तव' इत्यामृशन्
कविः, 'प्राय: प्रसाधनकृते कृतमज्जनानां' इत्युत्प्रेक्षया गङ्गायां
मज्जन्तः शिवरूपेण बहिरागच्छन्तीति वस्तुवनि स्फोरयति ।
(२-२६)
 
कृष्णपक्षक्षपासु चन्द्रकला हीयन्ते, देवास्ताश्चरन्तीति
प्रसिद्धिः । परंतु कविः, 'चान्द्री: कला हरसि, नैव चरन्त्य -
मर्त्याः' इत्यपह्नुत्यलङ्कारेण 'प्रतिक्षणं गङ्गायां मज्जनोत्तर-