This page has not been fully proofread.

-१२-
कुचाग्रस्य घर्षणात्किल परदेवतायाचिबुकं निम्नं जातमिति
असम्बन्धे संबन्धातिशयोक्ति दिशा । ( ४ - १३ )
 
अनन्तशयने पद्मनाभस्य वर्णनम् । भगवत उदरमति-
सुन्दरम् । तन्मध्ये चातिगम्भीरं सुषिरं ( नाभिकुहरं ) जगत्-
वितयसृष्टये मृदं हरता विधिना कृतमिव पश्यतः कवेरुत्प्रेक्षा
श्रीहर्षकवेः 'हृतसारमिवेन्दुमण्डलं' इत्यादिपद्यमनुस्मारयति ।
सद्यस्तत्रैव नवरोमराजि: लतिकेव दृश्यते । सा ( लतिका )
तदिदं सुषिरं आलवाल-
आलवाले किल सुप्रतिष्ठा भवति ।
मिवेत्यन्या उत्प्रेक्षा । उभयोर्मेलनमत श्लोके -
 
विधिना जगत्त्रितयसृष्टये मृदं
 
हरता कृतेन सुषिरेण हारिणा ।
नवरोमराजिलतिकालवालभू-
वलयेन नाभिकुहरेण शोभितम् ॥ (५-११)
 
अर्थान्तरन्यासोऽपि साधुतमांशभाग्भवति । दृश्यतामयम्-
-
 
जगदीश तावकगुणांशकीर्तना-
दपि भाग्यभाग्भवति विश्ववन्द्यताम् ।
जलधेः कियन्त्यपि जलान्युपादधत्
 
जलदो न किं व्रजति कीर्तनीयताम् ॥ ( ५ - ३०)
 
अपरच,
 
अथवा गिरीश ! मम वाग्जगन्मयं
 
न भवन्तमर्चयितुमक्षमा भवेत् ।
किमु मीलताऽपि विशिखः प्रचोदितो
धरणीशरव्यमपराधयत्यये ॥ ( ५ ३२ )