This page has not been fully proofread.

-११-
दक्षिणदेशे प्रधानानि क्षेत्राणि प्रायशोऽत्र भगवत्पादयात्राप्रसङ्गे
वर्ण्यन्ते ।
 
चरित्रसन्दर्भेषु, परैरनुल्लिखितकल्पनासु चास्य वश्यवाचः
कविशेखरस्यानुकूल्यमातन्वनी पदानां निरर्गला विन्यासचातुरी
सुधारसपरीवाहं मेदुरमनुआवयति रसिकान् प्रतिश्लोकम् ।
रूपकोत्प्रेक्षातिशयोक्त्यादयोऽलंकारा अपि अहमहमिकया अति-
श्लक्ष्णं घटते । दृश्यतामयं श्लोक:-
**
 
गोकर्णेश्वर: अर्धनारीश्वरोऽनुभूयते । वामे हिमगिरिजा
भागे वक्षोजभरेण या अवतिरनुभूयते अनुभूयतां नाम, सा
दक्षिणभागे सदाशिवमप्यवनमयति । इदमसह्यं, न केवलं परस्य
पुम्स, परमभक्तस्थापि कवेः । किं करोति सः ? पुर्वं त्रिपुर-
दाहकाले धनुरूपं मेरुं कराने कलयति स्म किल ! कविरुत्प्रेक्षते
कल्याणशैलं तं धनुरूप मालम्बयष्टितया कलयति उक्तवैषम्याप-
नयनायैवेति फलम् ।
 
"
 
वक्षोजभारावनकभागवैषम्यभूमापनिनीषयेव ।
 
कल्याणशैलं कलयन्कराने शर्माणि निर्मातु सदाशिवोऽयम् ॥
(४ =४)
 
अन्योन्योपकारकरीत्या घटमानयोरुभयोबहूनां वालङ्काराणां
एकत्र समावेशः प्रायः कृतहस्तानां महाकवीनां प्रबन्धेषु दृश्यते ।
यथाऽत्रैव, अर्धनारीश्वरस्तोत्रे - 'वामः स्तन उन्नतः, दक्षिणस्तु न,
पुमवयवत्वात् । अतो वामस्य दक्षिणः स्तनः सपत्नः सर्वथा
नेति, निस्सपत्नतया निर्भरं जातेन मोदेनेव वामः स्तनः
प्रवर्धते' इत्युत्प्रेक्षा । सा चोपकरोति अन्यामनुपदं स्वरसतया
अंकुरितामतिशयोक्तिम । कथं ? एवं प्रकामं प्रवर्धमानस्य