This page has not been fully proofread.

अनुबन्ध:
 
पर्यतां भजति यः पतगेन्द्रकेतोः
पादाङ्गदत्वमथवा परमेश्वरस्य ।
तस्यैव मौलिधृतसार्णवशलभूमेः
शेषस्य विग्रहविशेषमहं भजे त्वाम् ॥६५॥
 
दृष्ट्वा ( पुरा) पुर्नानजसहत्रमुखीमभैषुः
अन्तेवसन्त इति तामपहाय भूयः ।
एकानेन भवि यस्त्ववतीर्य शिष्यान्
अन्वग्रहीन्ननु स एव पतञ्जलिस्त्वम् ॥६६॥
 
तस्मिन्निति स्तुवति कस्त्वमिति ब्रुवन्तं
दिश्या समाधिपथरुद्ध ( रूढि) विसृट चित्तम् ।
गोविन्ददेशिकमुवाच तदा सवाग्भिः ( वाग्मी)
प्राचीनपुण्यजनितात्मविबोधजिह्नः ॥६७ ॥
 
स्वामिन्नहं न पृथिवी न जलं न तेजो
 
न स्पर्शनो न गगनं न च तद्गुणा वा ।
नापीन्द्रियाण्यपि तु विद्धि ततो विशिष्टो
यः केवलोऽस्ति परमः स शिवोऽहमस्मि ॥६८॥
 
आकर्ण्य शङ्करमुनेर्वचनं तदित्थं
अद्वैतदर्शनसमुत्थमुपगत्तहर्षः ।
स प्राह शंकर स शंकर एवं साक्षात्
जातस्त्वमित्यहमवैमि समाधिनेति ॥ ६९ ॥
 
तस्याथ दर्शितवतश्चरणौ गुहायां
 
द्वारेऽभ्यपूजयदुपेत्य स शङ्करायः ।
 
115