This page has not been fully proofread.

112
 
पतहालिबिजमाव
 
उपसंहृतेन विषयानुधावनात्
परमेस्व एव परिनिष्ठितेन च ।
समवृत्तिना हृदयेन पप्रथे
 
सुखदुःखयोः सखिसपत्नयोरपि ॥६५॥
 
स्वप्नप्रपञ्च सदृशं जगत्त्रयं
विदुषा मृषा मरुमरीचिवारिव ।
अमुना स्वरूपमवशेषितं धिया
 
परमात्मबोधसुखमावलक्षणम् ॥६६॥
 
सुरसिन्धुरोधसि गिरीशसन्निर्धा-
वतिनीय तत्र कियतोऽप्यनेहसः ।
विरहास हैरनुगतस्स योगिभिः
 
परिपावनं बदरिकाश्रमं ययौ ॥ ६७ ॥
 
ब्रह्माद्वैतं पश्यताऽशेषविश्वं
 
गोविन्दस्वामीति गीतेन लोके ।
पुण्यक्षेत्रे तत्र नारायणीये
 
कांश्चित्कालानाश्रमे तेन तस्थे ॥६८॥
 
अष्टमे सर्गे-शङ्करभगवत्पादचरितम्
 
अत्रान्तरे सरिति नऋगृहीतपादः
संन्यस्तशङ्करमुनिर्दुरिताद्विमुक्तः ।
गोविन्ददेशिक
पदाम्बुजदर्शनाय
 
बद्धादरो बदरिकाश्रममन्वियाय ॥ १७ ॥
 
शैलान्वनानि सरितो नगराणि पल्लीः
 
ग्रामाञ्जनानपि पशून्पथि सोऽथ पश्यन् ।