This page has not been fully proofread.

अनुवश्थः
श्रीरामभद्रयज्वनः कृतेः
 
पतञ्ज लिविजयात्
 
यथामूलं उद्धृतं
श्रीशङ्करभगवत्पादचरितम्
 
गोविन्दभगवत्पादाचार्या: गार्हस्थ्ये चन्द्रशर्मनाम्ना प्रसिद्धाः
( पृ ११ ) । तेषां चरितं वर्णयन्कविः प्रस्तौति सप्तमे सर्गे-
तनयानपाठयदयं पतञ्जलेः
महतीं कृति मतिमतां गणैः सह ॥ १४
 
पठिते पतञ्जलिनिबन्धने द्विजः
 
कृतदारकर्मणि च पुत्रमण्डले ।
शुकशिष्यगौडपदगुर्वनु महात्
 
चरमाश्रमं सुरनदीं च शिश्रिये ॥ ३१ ॥
 
चतुराननेन विधिनेव मुश्चता
 
समधिष्ठितं जगदशेषमात्मनि ।
भजताऽमुना परमहंस से व्यतां
 
अथ विश्वनाथपुरमाददे श्रियम् ॥३२॥
 
स तु विश्वनाथपुरमावसन्यतिः
समुपेयुषां सदसती हि वस्तुनी ।
वचनेन चञ्चुकलनेन विष्टपे
 
विविवेच हंस इव दुग्धपाथसी ॥६४॥