This page has not been fully proofread.

Ĵ
 
विषया: वर्ण्यन्ते । द्वितीये व्यासानुग्रहः, सनन्दनस्य शिष्यतया
स्वीकारः, कुमारिलभट्टसमागमः, विश्वरूपसमागमः, तेन सह
वादे विजयः इत्यादयो वर्ण्यन्ते । तृतीये जनन्या अन्त्येष्टि:
महासुराल येशक्षेत्रगमनं, पञ्चपादिकामनुद्य पद्मपादस्य शोका-
पनयनं, राजशेखरानुग्रहः, तोटकानुग्रहः हस्तामलकस्य शिष्य-
तथा स्वीकारः, इतीमे वर्णिताः । चतुर्थे गोकर्ण गमनं, हरिहर -
गमनं, मूकाम्बिकाक्षेत्रमार्गे मृतशिशोरुज्जीवनं, अमरुगकाय-
प्रवेश:, मूकाम्बिकाक्षेत्रगमनं, कापालिकाय सिद्धिदानं च
वर्ण्यन्ते । पञ्चमे अनन्तशयनमधुराक्षेत्रगमनं, षष्ठे दर्भशयन-
रामेश्वरगमनं, सप्तमे कावेरीतीरे श्रीरङ्गक्षेत्रगमनं, चिदम्बरा-
रुणाचल- सत्यव्रतक्षेत्र - काञ्चीगमनं, कामाक्ष्यालयप्रवेशः,
सर्वज्ञपीठारोहणं,
 
"
 
अष्टमे
 
सावरणदेवतायाः परदेवतायाः
 
कामाक्ष्याः स्तुतिः काञ्च्यां भगवत्पादानां सिद्धिश्च वर्ण्यन्ते ।
 
.
 
भगवत्पादीयचरित्रचित्रणे यद्यप्ययं कविशेखरो बद्धादर:,
तथाप्यौचित्यात् चित्रणीयवस्तुसंपदं महार्थामतिपावनीं चापा-
दयितुमनाः काव्यदृष्ट्या धर्मेकतानदृष्ट्या च, अतिमनोज्ञाः
काश्चन स्तुती: भगवत्पादीयतयोपनिबध्नातीति विशेषत उल्ले-
खनमर्हति । तत्र महाकाव्यलक्षणस्य दिनुन्मीलनं यथावसरं
सम्भवत्यपि । प्रथमं तावत् वर्णनीयचरित्रस्योत्तरोत्तरं द्रुततर-
क्रममुपलक्षयन् यदा इदंकविः कुशलतया किमपि कामनीयक-
मभिनवं उन्मेषयितुमनाः तृतीयाष्टमसर्गयोरन्तराले हरि-हर
देवीस्तुती: काश्चन स्वायत्तीकरोति, न केवलं तदा सहृदयमनांसि
परवशीकरोति, परं पूर्णप्रज्ञः स्वयमपि निर्वृतो भवति । स्तुतयः
इमाः परिगणनया विष्णुपरा: चतस्रः, शिवपरा: तिस्रः हरि-
हरयोः समुच्चित्यैका, अंबिकापराश्चतस्रश्च भवन्ति । अष्टमे सर्गे-
ऽपि परदेवतायाः स्तवो यथाऽत्र, नान्यत्र कुत्रापि दृष्टचर:
 
"
 
"