This page has not been fully proofread.

106
 
श्रीशङ्कर भ्युदयें
 
सम्यक् क्लृप्तनिषङ्ग स्थान् वन्देय शिवयोः शराज् ।
वरदाच ततोऽप्युच्चैवंलये समयेश्वरीः ॥७१॥
 
प्रतिष्ठितां सर्वसिद्धिप्रदचक्रान्तरे सदा ।
प्रणुमोऽतिरहस्याभिः परीतां त्रिपुराम्बिकाम् ॥७२॥
 
उपविष्टास्ततोऽप्युच्चैर्युगनाथा दिमागुरुन् ।
ऊरीकुर्मोऽथ नित्यास्तदूर्ध्व कामेश्वरीमुखाः ॥७३॥
 
कामेश्वर्या
सना दूर्ध्वं कलितावसथा मुद्दा ।
कल्याणानि षडङ्गानां कलयन्त्वधिदेवताः ॥७४॥
 
आसां षडङ्ग
देवीनां आलयस्योपरिस्थितम् ।
आसनं बिन्दुरूपं तदम्बायाः समुपास्महे ॥७५॥
 
अधिभिविघृतं धातृहरिरुद्रेश्वरात्मभिः ।
अहं सदाशिवाभिख्य फलकं मञ्चमाश्रये ॥७६॥
 
महानीलशिलानीलमायायवनिकावृते ।
मञ्चे तत्वारुणच्छायमहनीयवितःनके
 
॥७७॥
 

 
अनर्धपट्टोपबर्हमच्छाच्छसिचयावृतम्
हंसतूलाञ्चितं तल्पमाकल्पं कल्पतां मुदे ॥७८॥
 
तत्र मञ्चे समासीनं तरुणेन्दु शिखामणिम् ।
तापिञ्छपिञ्छ सच्छायतत्तादृशकायोच्चयम् ॥ ७९ ॥
 
ततः त्रिकोणात्मकं सर्वसद्धिप्रदं चक्रं यत्र शिवयोगयुधानि,
 
3
 
तदुपरि वलये कामेश्वर्याद्याः शक्तय: त्रिपुरांबा चक्रेश्वर, अतिरहस्याख्या
योगिन्यश्च ॥७३॥