This page has not been fully proofread.

104
 
श्रीशङ्करा भ्युदये
 
मूर्तिमत्यस्ततोऽप्युच्चैः
 
मूल्यापेतासु वेदिषु ।
 
मुद्रा: संकषिणीमुख्याः सदा सत्यं दिशन्तु नः ॥ ५७ ॥
 
त्रैलोक्यमोहनं चक्रं त्रिकं तदधितस्थुषी ।
वायतां प्रकटाख्याभित्रिपुरा शक्तिरावृता ॥५८ ॥
 
कनन्त्यः शक्तयश्चोर्ध्वं कनकासनपंक्तिषु ।
कामाकर्षणिका मुख्याः कामदोग्ध्रयो भवन्तु नः ॥ ५९॥
 
सर्वाशापूरकं चक्रं समया त्रिपुरेश्वरी ।
साक्षमाला वसति सा सन्नमद्गुप्तयोगिनी ॥६०॥
 
अवस्थितास्ततोऽप्युच्चैः हाटकासनपंक्तिषु ।
अर्चयामो वयं देवीरनङ्गकुसुमादिमाः ॥६१॥
सर्वसंक्षोभणे चक्रे सान्निध्यं समुपेयुषीः ।
सह त्रिपुरसुन्दर्या शक्तीर्गुप्ततराः स्तुमः ॥६२॥
अनङ्गकुसुमादीनां आसामूर्ध्वमवस्थिताः ।
भवन्तु सर्वसंक्षोभिण्यादिमाः शक्तयः सदा ॥६३॥
 
प्रथमावरणभूतं त्रैलोक्यमोहनचक्रं सीमफलक रूपभूपुरत्रय घटितम् ।
प्रथमं सोमफलकं अनिनादिसिद्धिभिरधिष्ठितं द्वितीयं ब्राह्मचादिमा-
ॠष्टकयुत तृतं यं सङ्कषिण्या दिदशमुद्रादेवताभिरविष्ठितम् । तत्सीम-
रेखावयं त्रैलोक्यमोह ख्यं त्रिपुरानाम्नी शक्तिः प्रकटख्याभिः योगि-
नीभिरावृता अधितिष्ठति ॥५॥
 
>
 
9
 
तत ऊर्ध्वं सर्वाशकं चक्रं षोडशदलं यत्र कामाकर्षणिकाद्याः
षोडशक्तः, त्रिपुरेशी, गुप्ताख्याः योगिन्यः ॥६०॥