This page has not been fully proofread.

अष्टमः सर्गः ।
 
आश्रये सदने दिव्यं अनर्धमणिनिर्मितम् ।
तत्राग्निदिशि कुण्डस्थं हव्यवाहं च चिन्मयम् ॥४९॥
 
संश्रयेऽस्यान्य कोणेषु शश्वच्चक्रात्मकं रथम् ।
शताङ्गावपि वार्तालीसचिवेशान्यधिष्ठितौ ॥५०॥
 
त्रिजगत्पावनी तत्र त्रिपुरा रश्मिमालिका ।
तृणोतु मम पापौघतृण्यां सन्मन्त्ररूपिणी ॥५१॥
 
पञ्चमीश्यामलादेव्यौ भवने मणिनिर्मिते ।
प्राद्वारसोम्नि धाम्नोऽस्य भावये पाश्वतः स्थिते ॥५२
 
चित्रद्वारं चतुष्कोणं चिरत्नवचनात्मना ।
चिन्तामणिमयं धाम चिन्तयें चिन्तितार्थदम् ॥ ५३॥
 
जपाकुसुमदायादैर्जगन्मातुर्महोभरैः ।
जाज्वल्यमानेऽथैतस्मिश्चक्रं किमपि चिन्तये ॥५४॥
 
आदिमावरणे तस्य हसन्मुखसरोरुहाः ।
असच्चिन्तां मयूखाभाः हरन्तामणिमादयः ॥५५॥
 
103
 
तस्यामुपरि धिष्ण्येषु तादृशेषु कृतासिकाः ।
तन्वन्तु भद्रं ब्राह्मचाद्याः तास्ता अष्टापि मातरः ॥५६
 
महापद्माटवीमध्ये चिन्तामणिगृहं, आग्नेय कोणे चिदग्निकुण्डस्थ-
श्चिन्मयोऽग्निः देवीप्रभवस्थानं, नैऋतकोणे देव्याः चक्रराजरथः,
वायव्ये मन्त्रिण्या: गेयचक्ररथ: ऐशाने वाराह्याः किरिचक्ररथः,
(वार्ताली वाराही, सचिवेशानो मन्त्रिणोश्यामला) गृहं परितः रश्मि-
मालाख्या: विविधा मन्त्ररूपिण्यो देवताः ॥५१॥
 
9
 
गृहप्राद्वारे पार्श्वयोः पञ्चमं वाराही, श्यामला च
चतुदरं गुड्म् । चिरत्नवचनानि वेदाः । गृहमध्ये श्रीचक्रम् ॥५४॥
 
चतुर्वेदमय-