This page has not been fully proofread.

102
 
श्रीशङ्कराभ्युदये
 
विमर्शवापिकां ध्याये विबुद्धयावरणावृतिम् ।
विहरन्त्या मणिकया तरण्या कुरुकुल्यया ॥४२॥
 
आतपोद्गारिणीं कक्ष्यां अहंकारकृतावृतिम् ।
अधितिष्ठन्नजस्रं मां अव्यादानन्दभैरवः ॥४३॥
 
चन्द्रिकोद्गारिणीं कक्ष्यां चारुभानुमयावृतिम् ।
चमत्करोतु श्रेयांसि चन्द्रो नित्यं समाश्रयन् ॥४४॥
 
शिशिरांशुमहासालां शृङ्गाररसवापिकाम् ।
श्रितः शृङ्गारराजोऽसौ श्रियमङ्कुरितां क्रियात् ॥ ४५ ॥
 
मञ्जु ( मध्ये) शृङ्गारशालस्य महापद्माटवीमणेः ।
महीयमानः प्राग्भागे मङ्गलायास्तु पावकः ॥४६॥
तत्र पात्रात्मके भानौ तरङ्गितसुधारसे ।
तरीविहारिणीश्चान्द्रीः स्तवानि सकलाः कलाः ॥४७॥
भजे तत्रैव खेलन्तीः पञ्चब्रह्मात्मिकाः कलाः ।
प्रागादिषु दिशास्वर्घ्यभाजनं च प्रतिष्ठितम् ॥४८॥
 
तदन्त: बुद्धिसाल: एकत्रिंशः तदन्तविमर्शवापी, मणिकया
माणिक्यमयया तरण्या कुरुकुल्या खेलति । ततोऽहङ्कारसाल: द्वाविंशः,
तदावृता आतपोद्गारिणी कक्ष्या आनन्दभैरवाधिष्ठिता । ततः सूर्यसाल:
नयोविंशः, तदन्तः चन्द्रिकोद्गारिणी कक्ष्या चन्द्राधिष्ठिता ॥४४॥
 
तदन्तः चन्द्रशालः चतुर्विंश, तदन्तः शृङ्गारवापिका मन्मथा-
धिष्ठिता । तदन्तः शृङ्गारसालः पञ्चविंशः तन्मध्ये महापद्माटवी,
तस्याः प्राग्भागे देव्यर्ध्य पात्रधर: अग्नि: अर्ध्यपात्राकार : सूर्यः तदन्त
अर्ध्यभूतः सुधारसः तत्र विहरस्त्यः
 
,
 
षोडश चन्द्रकलाः, ब्रह्मविष्णु-
रुद्रेश्वरसदाशिवाख्यपश्चब्रह्मकलाः पञ्चाशत् एवं प्रागादिषु चतुर्षु दिक्षु
प्रतिष्ठितं अर्ध्यभाजनचतुष्कं च ॥४८॥
 
>