This page has not been fully proofread.

अष्टमः सर्गः ।
 
वराभये च खेटासी वल्गुं च मुसलं हलमु ।
वहन्तीं शङ्खचक्रे च वाराहीं पाटलाम्बराम् ॥ ३५ ॥
 
अश्वाननाह्वयां तत्व पालितोन्मत्तभैरवाम् ।
पाकारिमणिसच्छायां भावये दण्डनायिकाम् ॥३६॥
 
पत्ररागमणीसाला प्रवालपरिष्कृता ।
पद्मासननाथा नः पातु प्रसववाटिका ॥३७ ॥
 
पालितं पद्मनाभेन पाञ्चजन्यादिलक्ष्मणा ।
प्रवालक्लृप्तप्राकारं भावये रत्नमण्डपम् ॥३८॥
 
सभा माणिक्यसालाढया सहस्त्रस्तम्भमण्डिता ।
षत्रिंशत्तत्वनाथेन सनाथा शंभुनाऽवतात् ॥ ३९॥
नवरत्नोल्लसत्तालां नमाम्यमृतवाटिकाम् ।
 
नावा ताराsम्बिका नित्यं नव्यया यत्व खेलति ॥४०॥
 
आश्रयामो मनस्सालामानन्दमयवापिकाम् ।
अस्यामनघ तरणीमारूढां वारुणीमपि ॥४१॥
 
101
 
तदन्तर्मुक्तामणिसाल: पञ्चदशः तदन्तर्मरकतवाटिका यत्र
वाराही दण्डनाथा आस्ते ॥३६॥
 
9
 
पत्र रागमणिर्मरकतं, तन्मय: षोडशः, तदन्तः प्रवालवाटिका, यत्र
ब्रह्मा स्थितः, तदन्तः प्रवालप्राकारः सप्तदशः, तदन्तर्नवरत्नमण्टपं यत्र
विष्णुः स्थितः, ततो माणिक्यस । लोऽष्टादशः, तदन्तः सहस्रस्तंभमण्डिता
सभा, यत्र षट्त्रिंशत्तत्वनाथ : शिव आस्ते ॥३९॥
 
'
 
TE
 
ततो नवरत्नप्राकार एकोनविंशः तदन्तः नृतवापी, यत्र तारा-
देवी नौकया खेलति । तदन्तर्मनोमयः प्राकार: निशः तदन्तः आनन्द-
वापी, यत्र नौकाधिरूढा वारुणी खेलति ॥४१॥
 
?