This page has not been fully proofread.

100
 
श्रीशङ्कराभ्युदये
 
चारुगोमेदकमणीचमत्कृत निजावृतिः ।
चकास्तु लीलारण्यानी चञ्चलद्वमा हृदि ॥२८॥
 
वज्ञाभिधायिनीमल वाहिनीमधितस्तुषीम् ।
वन्देय वल्गु गन्धर्वैर्वज्रेशीमुपवीणिताम् ॥ २९ ॥
 
वृत्तहीरमणीसाला प्रावृषेण्यसणिद्रुमा ।
वरपन्नगदैतेयपालिता पुष्पवाटिका ॥३०॥
 
मध्ये वैडूर्यवरणं महानीलाश्मवेदिकाम् ।
मान्यामुपासनासिद्धर्मनवै मानिनीसखैः ॥३१॥
 
मुग्धेन्द्रनीलप्राकारा मुक्ताकारोपवाटिका ।
मुदे भवतु सुत्राममुखदेवोपलालिता ॥३२॥
 
रत्नगारुत्मताकारराजतालद्रुमवाटिका ।
राजन्मुक्तामणीसाला रञ्जयत्वञ्जसैव माम् ॥ ३३॥
 
कुटिलेन्दुसमच्छायक्रूरदंष्ट्राङ्कुरद्वयीम् ।
कुञ्चित भूसमाज्ञप्तकुलिशास्त्रमुखामराम् ॥३४॥
 
तदस्मुर्गोमेदकवृक्षोद्यानपरिवृतो गोमेदकमणिसाल एकादशः,
तदन्तर्वज्ञमयोद्यानं, वज्राभिधा नदी, तत्तीरे वज्रेश्वरी गन्धर्व सेविता
देवीमाराधयति ॥२९॥
 
.
 
तदन्तर्वज्ञमणिसालः तदन्तर्वैडूर्यमणिमयोद्यानं, यत्र पन्नगा
दैतेयाश्च देवीमाराधयन्ति ॥३०॥
 
तदन्तर्वैडूर्यमणिसाल त्रयोदशः तदन्तर्नीलमणिमयो नं, यत्र
मानिनीसखा: मनुमान्धात्रादयः देवीं पूजयन्ति । तदन्त: लमणि-
सालातुर्दशः, तदन्तः मुक्तावाटी, यत्र दिक्पाला देवीमाराधयांत ॥