This page has not been fully proofread.

अष्टमः सर्गः ।
 
क्लृप्तमब्जभुवा तस्यां लुप्तमोहं मणीगृहम् ।
तप्तचामीकरप्रायसप्तसालमुपास्महे
 
॥२०॥
 
भूरेखयास्मिन्वेदाशाभूपदिग्गजपङ्कजैः ।
भूत्यै पञ्चत्रिकोणाभ्यां भूषितं चक्रमस्तु नः ॥ २१॥
 
तत्र तारुण्यसर्वस्वतरङ्गिततलताम् ।
तापिञ्छकुसुमच्छायां तरुणेन्दुवतंसिनीम् ॥ २२ ॥
 
ताटङ्कनों सुधाफेनताराशोभेन कम्बुना ।
तन्त्रीनादरसास्वादतत्परां नौमि चित्कलाम् ॥ २३ ॥
 
स्फुरत्सुवर्णप्राकारं भूषितं सिद्धसंसदा ।
पूजयामः पुष्परागभूरुहप्रमदावनम् ॥ २४ ॥
 
पुष्यरागमणीसालपुंखितानन्दचारणा ।
पुण्या सरोजरागद्रुपुष्पवाटी पुनातु माम् ॥२५॥
 
पायाद्गोमेदकमयैः पादः परिशोभितम् ।
पद्मरागमणीसालपरीतं प्रमदावनम् ॥ २६॥
 
सहिता भैरवः कालसंकर्वणियुतादिकैः ।
साधयेदीहितं तत्र संवृता योगिनीशतैः ॥२७॥
 
99
 
तदन्तः स्वर्णसालः अष्टमः, यत्र ब्रह्मानितं चिन्तामणिगृहम् ॥
भूपुर- चतुष्कोण- दशकोण - दशकोण - अष्टदल - पञ्चदकोण - त्रिकोण-
युतं मन्त्रिणीचक्रमस्ति । यत्र श्यामला मन्त्रिणी आते ॥२३॥
 
तदन्तः पुष्परागवृक्षोद्यानं, सिद्धैः युतं, तदन्तः नवमः पुष्पराग-
तदन्त: पद्मरागवृक्षोद्यानं, तदम्तः पद्मरागमणिसालो दशमः, यत्र
कालसङ्कर्षणिकादिभैरवीयुता योगिन्यः भैरवाश्च देवीं आराधयन्ति ॥
 
साल:,