This page has not been fully proofread.

98
 
श्रीशङ्कराभ्युदये
 
महारकूटप्राकारमहनीयोपकण्ठभूः ।
मनोरथं पूरयतान्मम मन्दारवाटिका ॥१४॥
 
इन्धानमिह साकतमिषोर्जश्री
कटाक्षितम् ।
ईशानपुरसेनान्यमीडे शरहतुं सदा ॥ १५॥
 
प्रथीयसा पश्चलोहप्राकारेण परिष्कृतः ।
पारिजातनुमा रामः पातकानि व्यपोहतु ॥१६॥
 
सहस्सहस्यलक्ष्मीभ्यां सरसं संलपनिह ।
स नो दिशतु सौभाग्यं समयो हिमिकामयः ॥ १७ ॥
 
कदम्बवाटिकापुष्पकदम्बास्थानमण्डपः ।
करोतु कलधौतेन कल्पितावरणो मुदम् ॥१८॥
 
तवासीनं तपोलक्ष्मीतपस्यश्रीतपः फलम् ।
तमत्तिकमृतुं चित्ते तनवै घनवैभवम् ॥ १९ ॥
 
ग्रीष्मर्तुः शुक्रश्रोशुचिश्रीशक्तिसहितः तत्र वर्तते ॥
हारसीसः वंगः । तन्मय: प्राकार : चतुर्थः । तदन्त: हरिचन्द -
मोद्यानम् । यत्र वर्षर्तुः नभः श्रीनभस्यश्रीशक्तियुतः वर्तते ॥ १३ ॥
 
आरं पित्तलं, तन्मय: कूट: पञ्चमः । तदन्तर्मन्दारवाटिका ।
इषाश्री ऊर्जाश्रीशक्तिसहितः शरः यत्र वर्तते ॥ १५॥
 
ततः पञ्चलोहप्राकारः षष्ठ: पारिजातवाटिकायुतः । यत्र सहः
श्रो सहस्य - श्रोशक्तियुतः हेमन्तर्तुः वर्तते ॥ १७॥
 
-
 
कलधौतं रजतं; तन्मयः प्रकार: सप्तमः; यदन्त कदम्बवाटिका,
तपः श्रीनपस्पश्रेयुनः शिशिरऋ वर्तते ॥१९॥