This page has not been fully proofread.

अष्टमः सर्गः ।
 
दीव्यद्विन्दुत्रिपश्चारद्विरष्टाष्टदलाम्बुजम् ।
दिश्यान्मे कालचक्राख्यं दीर्घमायुस्तदासनम् ॥७॥
 
वरायसाइभितः कांस्थवलयेन परिष्कृता ।
वरदास्तु वनभृङ्गवलया कल्पवाटिका ॥८॥
 
मधुमाधवलक्ष्मीभ्यां मानिनीभ्यामिहोल्लसन् ।
मारैकमन्त्री मे भूयान्मासः पुष्पाकरो मुदे ॥९॥
 
ताम्राकारेण सालेन तादृशीं प्रापितः श्रियम् ॥
तन्वीत सन्तनाक्रीडस्तन्वीं सन्तापसन्ततिम् ॥ १०॥
 
शुचिस्मिताभ्यां शुक्र श्रीशुचिश्रोभ्या मिहोज्ज्वलन् ।
शुभानि से निदाघर्तुः शुचमुन्मूलयत् क्रियात् ॥ ११॥
 
हारसीसापरिवृता हरिचन्दनवाटिका ।
हठादथ निदाघोत्थकोलाहलमपा क्रियात् ॥ १३
 
लक्ष्यो नाभसनाभस्यलक्ष्मीभ्यामिह सन्ततम् ।
लसयेन्मम साहित्यलालितीं जलदागमः ॥१३॥
 
97
 
महाकालः कालचक्राख्यं आसनं अलंकरोति । तत् बिन्दु-त्रिकोण-
पञ्चकोण - षोडशदलाष्टदलयुतम् ॥७॥
 
ततो वरायसा तीक्ष्णलोहेन, अभितः कांस्यवलयेन प्राकारेण
परिवृता। तदन्तः कल्पवृक्षोद्यानम् ॥ ८॥
 
तन वसन्तर्तुः मधुश्रीमाधवश्रीशक्तिसहितः वर्तते ॥ ९ ॥
 
त: ताम्रनयस्तृतीयः सालः यस्यान्तः सन्तानवृक्षोद्यानम्
 
सन्तान एव सन्तनः ॥१०॥
 
13