This page has not been fully proofread.

96
 
श्रीशङ्कराभ्युदये
 
अष्टम: सर्ग:
 
इष्टामथ स योगीन्द्रश्चाष्टापदगिरिंस्थिताम् ।
तुष्टाशयः सावरणां तुष्टाव परदेवताम् ॥ १॥
 
मेघङ्करमणिच्छा सामेचकीकृतसत्पथः ।
मेरुरालनुलावरे मेबुरा मे दुरापदः ॥२॥
 
कूट वितयवास्तव्यकूटस्थपुरुषत्रयम् ।
कुरुतां मध्यमं शृङ्खं कुशलान्यस्य भूभृतः ॥३॥
 
काञ्चनक्षीररनीपा प्रकाश्वनाद्रुमामिह ।
काश्चन श्रीपुराभिख्यां कामाक्ष्याः कलये पुरीम् ॥ ४॥
 
उच्चैरायससालाढ्यं उच्चावचतरूच्चयम् ।
•उद्यानमस्य विधानां उद्योतयतु मर्म मे ॥५॥
 
कपिशाभं महाकालं कापिशायनलालसम् ।
कलयेऽत्र महाकालीकण्डाश्लेषसकौतुकम् ॥ ६॥
 
अष्ठापदं स्वर्ण, अष्टापद गिरिरुः ॥१॥
मेघङ्कर इन्द्रः । सत्पथं आकाशः ॥ २॥
 
कूटत्रितग्रम् - प्राच्यां नैर्ऋत्यां वायव्यां च दिशि कूटत्रयं मेरोः ।
प्राक्कूटे ब्रह्मपुरं, नैर्ऋतकूटे विष्णुपुरं, बायव्यकूटे रुद्रपुरं, कूड त्रयमध्ये
मध्यमं शङ्खं श्रीपुरस्थानम् ॥३॥
 
श्रोपुरं यत्र वृक्षाः काञ्चनमेव क्षोरतया सवन्ति ॥४॥
 
अस्य पुरस्य साला: प्राकाराः पञ्चविंशतिः । प्रथमः साल: आयसः
अयोमयः । तदन्तः विद्योद्यानम् ॥ ५॥
 
अत्र कापिशायनं मद्यं, तल्लालसो महाकालः महाकाल्या सह
वर्तते ॥६॥