This page has not been fully proofread.

सप्तमः सर्गः ।
 
पाथोराशिसुतामपाङ्गवलने पार्श्वे शतं योषितां
पादाग्रे पृथिवीभुजोऽपि सकला पर्याय सेवावहान् ॥ ११ ॥
 
सौरभ्यस्फुरमाणबाणजयदे सौन्दर्यसंपन्निधे
सौभाग्यकनिवासभूमिपरतासौलभ्यभूमावधे ।
वश्याशेषचराचरे कुचजितावश्यायभूमीधरे
पश्यालीक (. .) यावश्यामले श्यामले ॥ ९२ ॥
 
इत्थं तामभिवन्द्य विश्वजननीमीशामथान्तविशन्
कल्पानोकहकाननालिसुभगे कंपानदीरोधसि ।
कामाक्षीपदपद्मभूत शिखरं कश्चित्पुरः कांचन-
क्षोणीभृत्कुलधर्वहं प्रमुमुदे पश्यन्सपद्यञ्जसा ॥ १३॥
 
इति दन्तिद्योतिदिवाप्रदोषाङ्क - अद्वैतविद्याचार्य - सर्वतन्त्रस्वतन्त्र-
लक्ष्मीभवस्वामिभट्टसुकृतपरिपाक - विश्वामित्रवंशमुक्ताफल- सत्य-
मङ्गलरत्न खेटश्रीनिवासदीक्षिततनयस्य कामाक्षीगर्भसम्भवस्य
श्रीमदर्धनारीश्वरदीक्षित गुरुच रणसहजतालब्धविद्यावेशद्यस्य
 
श्रीराज चूडामणिदोक्षितस्य कृतिषु
शङ्कराभ्युदये काव्ये सप्तमः सर्गः ।
 
95