This page has not been fully proofread.

सप्तमः सर्गः ।
 
हस्तिमुखकठिनमस्तकशूलहरस्तनभरं
 
जपाशोणम् ।
 
अस्ति कुलदैवतं नः स्वस्ति परेभ्यः सुधाशेभ्यः ॥७९॥
 
लवतामघं नयन्ती नवतामरसश्रिया दृशा भजताम् ।
भववामतनुर्मम सा भवतापविमुक्तये भवतात् ॥८०॥
 
हीमिति जपतां ददती सामितिरोभूतपौरुषं रूपम् ।
सा मितिविरहितमहिमा कामितसिद्धि करोतु कामाक्षी ॥८॥
 
संकुचदम्बुज समकुचमंकुशपाशेक्षुचापपरिमिलितम् ।
कुंकुमसमरुचि दैवतमंकुरितं मम कुतूहलं कुरुताम् ॥८२॥
कलया पुषितचकोरीकुलया कोरकित हेमकोटीरम् ।
निलयायितमुनिहृदयं कलयामः किमपि कटाक्षितारुण्यम् ॥
 
ललना शंभोखिजगत्कलनापालनतिरोधिकृतलीला ।
वलनानि दृशोरनिशं तुलनावराणि मयि भृशं तनुताम् ॥८४॥
 
ह्रींलेखार्थमबाधितमुल्लेखातीतसहजसौन्दर्यम् ।
तल्लेखा बनतं शशभृल्लेखालाञ्छितं महो महये ॥४५॥
 
93
 
इत्थं पञ्चदशाक्षरीमनुगतैर्वणः कृतोपक्रमैः
कामाक्षीं बहिराहितस्थितिमतीं पद्यैः समाराधयन् ।
 
नः अस्माकं कुलदैवतं जपाशोणं देवतमस्ति । सम्त्वम्ये देवताः
सुधाशनेन तृप्यन्तः । न तैः किमपि कृत्यं नः । परेभ्य: तेभ्यः सुधाशेभ्यः
स्वस्त्यस्तु ॥७९॥
 
पुषितं पुष्टं कुलपोषं चकोरीकुलं यया चान्द्रय / कलया ॥३॥
 
लेख्नैः सुरैरवनतम् ॥८५॥
 
"