This page has not been fully proofread.

सप्तमः सर्गः ।
 
पाणौ सनन्दनमसाववलम्ब्य विद्या-
भद्रासनं तदधिरोहितमुच्चचाल ॥६५॥
 
शृङ्गारसान्द्रकवितासरणावजित्वा
मामङ्ग साहसमिदं सहसा न कुर्याः ।
इत्यूचिषीं विधिवधूं च विजित्य विद्या-
भद्रासनं विधिरिव स्त्रयमध्यरुक्षत् ॥६६॥
तथागतकथा मुधाइजनि तथैव तौतातिकं
 
मतं विधुतमाकुलाकुलमभूत्कुलं विद्विषाम् ।
क्षणेन नयवद्विदा हृतमदाः कणादादयः
समुल्लसति भंगुरेतरवचोंकुरे शङ्करे ॥६७॥
 
ततो दिविषदध्वनि ध्वनिनिवारिताशावली-
-
 
धुरन्धरसमीरितत्रिदशपाणिकोणाहतः ।
अरुन्ध हरिदन्तरं स्वरभरै भ्रमत्सिन्धुभिः
घनाघनघनस्वनप्रथमबन्धुभिर्दुन्दुभिः ॥६८॥
 
कचभरनहनं पुलोमजायाः
 
कतिचिदहान्यपगर्भकं यथा स्यात् ।
गुरुशिरसि तथा सुधाशनाः स्व
 
स्तरुकुसुमान्यथ हर्बतोऽभ्यवर्षन् ॥६९ ॥
 
91
 
कामतन्त्र विषयकभारती विजयः विश्वरूपा उभयभारत्या
विजयरूपेण विश्वरूपजयानन्तरं निबद्धो माधवीयादिषु । जगद्गुरु-
रत्नमालायां अन ।
 
पुलोमजाया इन्द्रपत्न्याः केशालङ्कारणाय कञ्चन कालं पुष्पाणि
नालभ्यन्त सर्वेषां स्वस्तरुकुसुमानां गुरुशिरसि प्रक्षित वात् ॥६९॥
: