This page has not been fully proofread.

सप्तमः सर्गः ।
 
अगेन्द्रजाऽकम्पत कम्पया पुनः
 
प्रभो भवानप्यलमभ्यकम्पत ।
अथापि सा भीरुरितीर्यते, भवान्
 
पुनर्न, पुण्येन हि लभ्यते यशः ॥५६॥
 
भवन्तमेके पुरुषं पुरातनं
 
परे त्रिलोकीतिलकं बभाषिरे ।
कुलाद्रिकन्याकुचकुम्भसङ्गते
बिभषि भूम्ना पुलकाङ्कुरं कथम् ॥५७॥
 
सुरत्रबन्तीं सततावृतां स्वभू-
शिरः स्रगङ्कुरमुशन्ति केचन ।
शशाङ्करेखामहमोश पाण्डुभू-
शरासनाघातंकिणं तु साधये ॥५८ ॥
 
सुधांशुरेखोभयकोटिनिस्सरत्-
सुधाकणोदश्वितमौक्तिकावलिः ।
 
कुलाचलाधीशकुमारिकाकर-
ग्रहोत्सवे ते शुभिकाऽभवत्किमु ॥ ५९॥
 
89
 
कामाक्ष्यपि अनुकंपया अकम्पत, भवानपि तथा । परं सा भीरुः,
भवान्परं न तथेति किमिदम् ? ॥५६॥
 
"
 
तव शिरसि काचन रेखा । केचिदेनां गंगामाहुः केचित् ब्रह्म-
शिरःकपालमिति अन्ये चन्द्ररेखां नैतत्साधु अर्जुनधनुःप्रहारज:
किण इति तु सत्यं इत्यहं साधये ॥५८ ॥
 
9
 
D
 
शुभिका शुभाक्षत्रादिप्रक्षेपः ॥५९॥
 
12