This page has not been fully proofread.

88
 
तयोरियत्येव भिदा यदादिमा
 
स्फुरत्फला मूनि परा तु मूलतः ॥५१॥
 
कुतूहलेनाथ कुलाद्रिकन्यका-
श्रीशङ्कराभ्युदये
 
कुचाग्रसीमणमदेन मुद्रितम् ।
 
महोनिधि तत्र महा हिसङ्गतं
 
विलोकयन्नित्थमसौ व्यजिज्ञपत् ॥५२॥
 
रसालमूले रचितासिकं तदा
 
गवेषमाणा गहनागमाञ्चले ।
विभो लभन्ते यदमी विपश्चितो
 
भवन्तमेषा तव वैभवोन्नतिः ॥५३॥
 
विमुञ्च चान्द्रया कलया वियन्नदीं
 
विधेहि कम्पाधुनिमेव मूर्धनि ।
चिरेण ताभ्यामनपाहतं च यत्
 
तवाङ्गजं तापसपाजहार सा ॥ ५४ ॥
 
गिरीश मारग्लपिताशये यदा
 
कृतानुकम्पा समजायत त्वयि ।
तदादि कम्पेति नदीयमीर्यते
 
न भीमसेनः किमु भीमनामकः ॥५५॥
 
त्रयी एकाम्रवृक्षं इति एतयोर्मध्ये त्रयो मूर्ध्नि उपनिषत्सु श्रुति
शीर्ष भूतासु स्फुरत्फला एका म्रवृक्षस्याधः मूले तत्फलं राजते इति
विशेषः ॥ ५१ ॥
 
गंगाधरो माभू:
 
>
 
कम्पाधरो भूयाः ॥ ५४॥