This page has not been fully proofread.

86
 
श्रीशङ्कराभ्युदये
अरुणाचल क्षेत्रगमनम् ।
 
विधाय तस्यां विधिवन्निमज्जनं
 
शुचिर्ययौ शोणगिरोशितुः पुरीम् ।
महानलस्तंभवपुर्महेश्वरो
 
व्युदास यस्यां विधुवेधसोमृगम् ॥४१॥
 
अगेन्द्रजा यत्र किलातिकोमलं कलेवराधं ददती कपालिने ।
तदीयमधं पुरुषं ततोऽग्रत् जडात्मजन्मा किनु वेत्ति सांप्रतम् ॥
पितृप्रसं वन्दितुमुद्यतो रुषा पृथग्भवद्वामकरो यदञ्जलिः ।
क्षणेन भूषाहिफणेन पूर्यते तमर्वनारीश्वरमभ्यवन्दत ॥४३॥
निरीक्षमाणः पथि सत्यमङ्गलं निवासयोग्यं मणिखेटयज्वनः ।
पयोनदों प्राप पयो यदंभसा विमिश्रितं वेत्तुमलं न सारसाः ॥
 
कुमारभवस्वामी, तत्पौत्रो भवस्वामिभट्टः । कदाचित् एतेषां पूर्वतनः
कवन भवस्वामी शङ्करसमकालिक अवर्ततेति धिया कविना एवं
वर्णितं स्यादित्यूह्यते । पिनाकिनी शिवाकारा तनुः विवर्तते ॥४७ ।
 
X
 
सकपाली, तस्मै अतिकोमलं स्ववपुरधं ददौ । तदीयं अर्ध-
मगृह्णात् । जडात्मनो हिमवतो जाता किल? सांप्रतं युक्तायुक्तं वेत्ति
किमु ? ॥४२॥
 
शिवेन पितृप्रसूं सायंसन्ध्यां वन्दितुं अञ्जलिः उद्यतः । पार्वती
न तां वन्दितुमुदत्सहत । रुषा स्वीयं वामकरं पृथगकरोत् । भूषाहिफणः
वामकरस्थानीभवन् अञ्जलि पूर्णमातनोत् । सायंसन्ध्या पितृप्रसूरिति
कोशः ॥४३॥
 
मणिखेटयज्वमः रत्नखेटश्रीनिवास दीक्षिता ख्यस्य कवेः पितु
जनिष्यमाणस्य निवासाय योग्यम् ॥४४॥