This page has not been fully proofread.

सप्तमः सर्गः ।
 
85
 
रसोत्तरं धन्व रणन्मधुव्रतं शरं सृणि पाशमपीश बिभ्रतम् ।
करद्वयकल्पितवेणुकं च यो भवन्तमन्तर्भजते स भाग्यभाक् ॥
चिदम्बरादिक्षेत्रगमनम्
 
इति स्तुवन्नेत्य यतिश्चिदंबरं स नीलकण्ठं सदसि व्यलोकयत् ।
अवेक्ष्य यः स्वापजुषं हरिं घनं सलोकपालश्चतुरं प्रत्यति ॥
गलत्करोदश्चितकङ्कणोल्बणं
 
निरीक्ष्य यं नृत्यति कालिका स्वयम् ।
तमद्भुतं वीक्ष्य स नीलकन्धरं
 
ततस्तपस्वी गरुडापगामगात् ॥ ३८॥
 
फणाभृतं पावयितुं स्वरालया-
दुपैति यत्रोपतटं सुरापगा ।
निमज्ज्य तस्यां निखिलागमाकरं
 
स कोट्टलंपाक्कमटीकताकरम् ॥३९॥
 
पवियत्रत्र स भैक्षचर्यया स्वयं भवस्वामिसुधीनिकेतनम् ।
पिनाकिनीं प्राप धुनों विवर्तते पिनाकिनी यत्र निमज्जतां तनुः ॥
 
श्रीविद्या राजगोपाल इति मन्त्रशास्त्रे ललिताया श्रीकृष्णस्य चैक-
रूपतया ध्यानाय षट्करा देवता प्रसिद्धा, रसोत्तरं इक्षुवनु, रणन्मधुव्रतं
पौष्पं शरं पाशमंकुशं चेति ललितासाधारणश्चतुभिर्भुजैः वेणुं कृष्णसाधा-
रणाभ्यां भुजाभ्यां च दधती ॥३६ ॥
 
भवस्वामिसुधीनिकेतनम् भवस्वामी नाम भाष्यकर्ता, यस्मात्
षष्ठोऽयं राजचूडामणिदीक्षितः कविः ॥ पूर्वजमहिम्नि महत्या श्रद्धया
अस्थानपतितेनादरेण च, शङ्करभगबत्पादानां अस्य गृहे भिक्षाग्रहणं
वर्णयति कविः । वस्तुतः भगवत्पादेभ्योऽहपर्वाचीनोऽयं भवस्वामी ।
अथवा बहवस्तद्वेश्याः भवस्वामिनासान: भवस्वामिनः पौत्र
 
2