This page has not been fully proofread.

84
 
श्रीशङ्करा भ्युदये
 
पदारविन्दैकपरागतः पुरा
 
शिलामपि श्रीसदृण भवान्व्यधात् ।
करेण कुब्जां चिबुके पदा पदे
 
स्पृशन्व्यधत्तेश तथेति कः स्मयः ॥३१॥
 
निहत्य निश्शेषमशेषराजकं
 
मही द्विजेभ्यो नखदक्षिणीकृता ।
करग्रहार्हा न ममेति कि विभो
 
तमुग्रसेनं धरणीपति व्यधाः ॥३२॥
 
पयोनिधिदेव भवान्तरद्वये
भवत्प्रतापंज्वलनानुभाववित् ।
 
अदत्त वीतानुशयं प्रसादयन्
 
पदं तव द्वारवतीपदास्पदम् ॥३३॥
 
पुरा व्यरौत्तं पुरुहूतजं मुधा
सुहृत्त्वमुष्णाम्सुसुतेन शीलयन् ।
इतीस जातानुशयो ध्रुवं भवान्
 
इहावतारे कृतवान् विपर्ययम् ॥ ३४॥
 
रसोत्तरङ्गां त्वयि रागसंपदं
विधाय वंशीमधरे विवृण्वति ।
मनोभवो वल्लवपल्लवाधरा-
मनस्स्वतानीदनुरागसम्पदम् ॥३५॥
 
भवान्तद्वये परशुराम-रामावतारकाले ॥३३॥
 
रामावतारे इन्द्रसूनुर्वाली शत्रुः सूर्यसुतः सुग्रीवः सुहृत् । कृष्णात्र-
तारकाले इन्द्रसूनुरर्जुनः सुहृवं सूर्यसुतः कर्णः शत्रुः ॥३४॥
 
>