This page has not been fully proofread.

सप्तमः सर्गः ।
 
कराम्बुजातं करजाङ्‌ङ्कुशत्रुट-
त्तनुं तनोति स्म पुरा सुरहितम् ।
इतीर्ण्यया त्वच्चरणाम्बुजं ध्रुवं
 
विलासघातैः शकटं व्यसुं व्यधात् ॥ २६ ॥
 
83
 
पुरन्दरारातिशरात्मतां गताः पुरा बभूवुर्भुजगा इति ध्रुवम् ।
तदीयजातौ सरुषांबुबासो हतस्त्वयादि च हन्त कालियः ॥
उदृढतत्तादृशमन्दरोर्वराभृतो गभीरे पयसां निघौ तव ।
मुकुन्द गोवर्धनभूभृदुद्धृतिर्मनस्सु नः स्मेरयते न विस्मयम् ॥
तवेश धत्ते पठितैकपाठता तदुग्रबाणासनदण्ड खण्डनम् ।
करेणुरुन्मस्तक रेणुरप्यरे: करेऽणुरासीदिति नाभुताय नः ॥
द्विपेन्द्रसंरक्षणदीक्षितो भवान्
 
द्विपेन्द्रमीश द्विषतोऽवधीत्कथम् ।
तवाथवा तादृशंसंहनाटिका-
महानटस्येदमवैमि सांप्रतम् ॥ ३०॥
 
प्रसूः रेणुका परशुरामावतारे । सुकेतुजा ताटका रामावतारे ।
'विबुध्य तां - बालकमारिकाग्रहं चराचरात्माऽऽस निमीलितेक्षणः' इति
भागवते ॥२५॥
 
पूर्व करः हिरण्यकशिपु पवधीत् करजे तत्तनुं भिन्दन् । इदानीं
चरणी विलासघातैः शकटासुरमिति विशेषः ॥२६॥
 
पुरा भुजगा: पुरन्दराराते: इन्द्रजितः शरा नागास्त्ररूपा अभवन्
इति रुषा अद्य कालियो मदितः किम् ? ॥२७॥
 
कम ठरूपेण जले कुलपर्वतं मदरमुद्धृतवत: नियं भूमि-
मधिष्ठाय गोवर्धनधरणे भार : ? ॥२८॥
 
उमः शिवः । शिवधनुर्भङ्ग इति पठितेकपाठता ॥२९॥
 
.